________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०
शुद्धाहारमानीय बहिः समायातस्तत्र तान् स्वर्णयवानपश्यन् तमेव साधु तच्चौरं मन्यमानो | जगाद । भो साधो ! इहस्था यवाः केन गृहीताः (इत्याकर्ण्य) साधुना चिन्तितं यदि | पक्षिणा भक्षिता इति वक्ष्ये तर्हि मद्वचनादेवायं एनं क्रौञ्चं हनिष्यति एवं विचिन्त्य मौनमेवाश्रित्य स्थितः । तदातिरुष्टेन स्वर्णकारेण साधोः कण्ठे पाशो धृतस्तेन तस्य चक्षुषी निःसृत्य बहिःपतिते । तयैव वेदनया स साधुः असकृत्केवलीभूत्वा मुक्तिं प्राप्तः । इत्थं प्राणान्तोपसर्गेपि मेतार्यमुनिना जीवदयैव मनसि धृता न किमप्यन्यचिन्तितम् । एवमन्यै | रप्याचरणीयम् । इति समयिके भेतार्य दृष्टान्तः ॥ २॥ ___ अथ सत्यवादे कालिकाचार्यदृष्टान्तो यथा । तुरमणीनगर्या कालिकाचार्याणां भागिनेयेन दत्तनाना पुरोहितेन बलात्स्वकीयं नृपं कारागारे निःक्षिप्य स्वयं राज्यभारं बिभ्रता एकदा मातृप्रेरणया आचार्यसमीपं गतेन तेनैव दत्तेनोन्मत्त
॥५॥
For Private and Personal Use Only