________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वस्थानं गताः । तदा पांडवैरित्थं सम्मानितो कौरवैरपमानितश्च स मुनीन्द्र उभयत्र सम | भावमकरोन्मनागपि रागद्वेषादिकं न कृतवानिति समभावे दमदन्तवृत्तान्तः ॥ १ ॥
अथ दयापूर्वक प्रवृत्तौ मेतार्यदृष्टान्तो यथा । मेतार्य (नामा कश्चित् ) मुनिः प्राग्भवाचरितदुरित| वशात् राजगृहनगर्यौ चाण्डालकुले समुत्पन्नः । चाण्डाल्या च जन्मसमय एव मृतवत्सायै | धनद श्रेष्ठपल्यै प्रच्छन्नमर्पणात्तद्गृह एव वृद्धिं प्राप्तः क्रमेण यौवने प्राप्ते प्राग्भवमित्रदेव | साहाय्यादष्टौ श्रेष्ठिकन्याः पुनश्चैकां श्रेणिकनृपपुत्रीञ्च परिणीतवान् । ततो द्वादशवर्षान्ते | देववचनात् श्री वीरप्रभुसमीपे प्रवृज्यामादाय बहुदेशेषु विहरन्नेकदा ( तस्यामेव ) राजगृहनगर्यौ स्वर्णकार गृहे भिक्षार्थं प्रविष्टः । तदा स्वर्णकारे भिक्षानयनार्थं स्वगृहे प्रविष्टे |सति श्रोणिकनृपस्य देवपूजानिमित्तं तत्कृता अष्टोत्तरशतप्रमिताः स्वर्णयवाः क्रौञ्च पक्षिणा | भक्षिताः स च क्रौञ्चः उड्डीय भित्तेरुपरि स्थितः । तावत् स्वर्णकारोप ( गृहाभ्यन्तरत )
For Private and Personal Use Only