________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥९॥
अ० त०॥ त्वमेव यत् श्रेयांसस्य कश्चिदपूर्वो महान् लाभो भविष्यति । अथ तस्मिन्नेव दिने गृहं |
निर्याते श्रेयांसे स एव भगवान ऋषभदेवः भिक्षार्थं तस्य गृहमाजगाम । श्रेयांसस्त्वागतं । स्वामिनं विलोक्य जाताल्हादस्तं तुष्टाव यतो महात्मा ऋषभः महार्हपूजनोपचारैः स्वर्णगजाश्वादिभिश्च लोकेन पुजितोऽपि कस्यचिदपि सपर्या नाऽग्रहीत । अत एव रुष्टं तं विज्ञाय सर्व एव जनाः स्वं स्वं भाग्यं गर्हयन्तः श्रेयांसस्य भाग्योदयं मेनिरे ।
श्रेयांप्तस्तु तदर्शनमात्रादेवोत्पन्नपूर्वज्ञानः अहो! ईदृग्विधं रूपं मया पूर्वमपि दृष्टमिति विचा. रयन् भगवता सह स्वस्याष्टमभवजन्यसम्बन्धं ज्ञात्वा ह्यचिन्तयत् अहो ! अज्ञानविजृम्भितमेतत् सर्व सांसारिकाणां जीवानां येन ते ईदृग्विधं मोहं कुर्वन्ति यतश्चायं भगवान ऋषभदेवस्त्रैलोक्यराज्यमपि तृणाय मन्यमानस्सर्वमेव सुखं जलबुहुदवद्भावयन् साधुत्वमङ्गीकृत्य मोक्षाय यतते एनं महात्मानमेषा सर्वलोकमोहकरी माया परिमाणुमात्रमपि बाधते किं पुन-
॥९॥
For Private and Personal Use Only