________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मभूदिति शेषः । भुवनं स्वर्गमर्त्यलोकपातालरूपं यशसा भृतं अहो श्रेयांसेन त्रिजगत्पतये किमप्यदत्त पूर्व दानं दत्तमिति त्रिलोकव्यापिनी तस्य कीर्तिरभूत् इति भावः । भगवान् ऋषभस्वामी रसेनेक्षुरसेन प्रतिहस्तो लोमभागमभूत् संयमला भस्येक्षुरसाहा र पूर्वकत्वात् । श्रेयांसस्यात्मा परमसुखं प्राप्तवान् । अतः सत्पात्रदानं प्रशस्तमित्यभिप्रायः | ॥ ३ ॥ " रिस हेस समं पत्तं निखयं इरकुरससमं दाणे । सेयं ससमो भावो हविद्यत इमग्गिय हुधा ॥ " इयं गाथा तु स्पष्टार्थेव । ननु त्रैलोक्यपूज्यस्यापि भगवतः कथमेतावानन्तरायोऽजनिष्ट तत्रोच्यते । प्राकृतकर्मोदयात् । तथा हि । कस्मिंश्चित्प्राग्भवे ऋषभस्वामी जीवेन पथि व्रजता धानपले धान्यं भक्षयतो बलीवर्दान् कर्षकैस्तो दनादिना ताड्यमानान् विलोक्य चिन्तितं यदिमे मूढाः वृषभमुखेषु शिक्यबंधनांदिकमपि न जानन्ति अत इमान् एषा क्रिया वक्ष्ये इति विचार्य स्वयं तत्र स्थित्वा स्वहस्तेन
For Private and Personal Use Only