________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| मणिस्वर्णकन्या गजमुक्तादय इति । इत्थं चिन्तयन् स महात्मा श्रेयांसः गवाक्षादुत्तीर्य भगवन्तं ऋषभं त्रिः प्रदक्षिणीकृत्याभिवाद्य कृतांजलिखो चत् । भगवन् ! प्रसन्नो भव मदर्पितां पूजां प्राभृतार्थमानीतान् शतसंख्याकान् घटांश्च गृहाण । भगवान् ऋषभदेवस्तदाकर्ण्य पूजार्थमानीतां महतीं सामग्रीञ्च विज्ञाय इक्षुरसग्रहणाय करद्वयं प्रसारितं श्रेयांसस्तु रत्नपात्रतुल्याय श्रीमद्भगवते त्रिकरणशुद्धया इक्षुरसरूपं निर्दुष्टमाहारं ददानो हर्षभरेण स्वचेतसा आत्मानं धन्यतरं मन्यमानः त्रिजगत्पूज्येन भगवताऽहारग्रहणतोऽनुग्रहीतास्मीति चिन्तयन् स्वहस्तगृहीतेरिक्षुसपूर्णघटैर्भगवन्तं पाययदप्रीणयत्तातो | देव भगवान् सर्वज्ञो ऋषभस्तं जिज्ञासुं विज्ञायाकाशे स्वकीयानि पञ्चदिव्यरूपाणि ह्य दर्शयत् । यतः पारणायेक्षरसं सर्वश्रेष्ठमिति ब्रुवते श्रावकाः । एतदेवाह भगवान् भद्रबाहुः “ उसभस्से " त्यादिना । गाथार्थस्तु श्रीप्रथम तीर्थकरस्य ऋषभलोकनाथस्य प्रथमपारणे
For Private and Personal Use Only