________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राप स च महात्मा विंशतिलक्षमितानि वर्षाणि यावत्कौमारपदे स्थित्वा त्रिषष्टिलक्षवर्षमितकाले राज्यं बुभुजे ततश्चैत्रकृष्णाष्टम्यामेव तेन ऋषभस्वामिना दीक्षा गृहीता। एतस्मिन्नेव । समये श्रीवाहवलनाम्नः राज्ञः पुनः श्रीसोमयशोनृपः हस्तिनापुरे राज्यमकरोत् ।। भगवान् ऋषभस्तु दीक्षां प्रगृह्य वर्षे यावदाहारालाभान्निराहार एव भूमण्डले पर्यटन । हस्तिनापुरमाययौ । अथ च हस्तिनापुरनिवासी कश्चित श्रेष्ठी स्वप्ने श्यामायमानं मेरु । स्वहस्तेनीद्धतैरमृतपूर्णः कनकघटैः प्रक्षालितं ददर्श । तथा च तस्यामेव रात्रौ सुबुद्धिनामापरः कश्चित् श्रेष्ठी सूर्यबिम्बाच्च्युतं किरणसहस्रकं श्रेयासन पुनः स्थापितं स्वप्ने दृष्टवान् । राजा सोमयशश्च एकं वीरं बहुभिः शत्रुभिः प्रतिरुद्धं श्रेयांससहाय्यतः प्राप्तविजयं । स्वप्नेऽपश्यत् । ततोऽतीतायां रात्र्यां प्रातस्ते त्रयः राजसभायां गत्वा मिलितास्सन्तः खं स्वं स्वप्नेमूचुः। तदाकर्ण्य नृपादिभिस्सर्वैरेवोक्तं यदस्य स्वप्नस्य फलं
For Private and Personal Use Only