________________
Shri Mahavir Jain Aradhana Kendra
चे० ५०
॥९२॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
र्णिमायाः व्रतमारब्धं । तेनास्याः विषयवासनाशान्तिस्त्वचिरेणैव कालेनाभूत् । एवं पञ्चदशवर्षाणि यावद्वतमाराध्य पूर्णे व्रते विधिना तदुद्यापनमकरोत् । अथ च पुण्डरीकगणधर ध्यानेन श्रीसिद्धाचलयात्राकरणेन च श्री ऋषभदेवजपप्रभावतो विनष्टपापा कालेनानशनं विधाय देहं | विमुच्य सौधर्मदेवलोके देवत्वेनोपपन्ना तत्र देवसम्बन्धि भोगान् भुक्त्वा महाविदेहक्षेत्रे वसंतपुराधीशस्य नरचन्द्रनाम्नो राज्ञः राज्ये ताराचन्द्र श्रेष्टिनस्तारानाम्न्यां भार्यायां स एव जीवः | पुनः पुत्रत्वेन पूर्णचन्द्राभिधो भविष्यति । स च द्विसप्ततिकलायुक्तपञ्चदशकोटिमितधनी पञ्चदशभार्यो दशपुत्रः सर्वसुखसम्पन्नो भविष्यति । स एव पुनः चैत्रशुक्लपूर्णिमाराधनं करिष्यति तथा च जयसमुद्रनाम्नः गुरोः सकाशाद्दीक्षां प्रगृह्योतन्नज्ञानः कालेन परमपदं यास्यति एव चैत्रया : समाराधनेन बहवो जीवाः परमानन्दं प्राप्ताः । यथाचैव विमलाचले वालनामा महामुनिमोक्षं प्राप्तः अपि च श्रीकृष्णसुतः प्रद्युम्नोपि स्वसुतेन
For Private and Personal Use Only
व्या०
॥९२॥