________________
Shri Mahavir Jain Aradhana Kendra
चै० पू०
॥८९॥||
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इति प्रकृते गुरुर्गणधरः प्राह हे भद्रे अशुभकर्मणः फय्मशुभमेव भवति तथाहि । व्या० जम्बूदीपस्य पूर्वभागे विश्वविख्यातं मनोरमं कैलासपर्वताकारं तुङ्गप्राकारवेष्टितं नानादेशोद्भवजनाकुलविशाल गृहमण्डितं चन्द्रकान्तनाम नगर मासत्ि तत्र श्रियोधामा सकलगुणगणग्रामः जगत्प्रसिद्ध नामा समरसिंहाख्यो महीपतिः राज्यं कुरुते स्म । तस्य च शीलालंकार धारिणी वल्लभानाम्म्री पट्टराज्ञीबभूव । तत्रच कश्चिन्महाधनाढ्यः जिनभक्तिरतः परमश्रद्धालुरनेकगुणसागरो धनवाह नामा श्रेष्ठ अवसत् । तस्यकर्मयोगादेभार्ये बभूवतुः एका कनकश्रीः द्वितीयाच मित्रश्रीः | ताभ्यांसह स श्रेष्ठी सुखेन कालं गमयतिस्म तेयारेकेकं दिनं निश्चित्य श्रेष्ठी नियत दिने यथा क्रमं दयो समीपे क्रीडति अथकदा कनकश्रीनामज्येष्ठपत्नी | कामवशात् सपत्न्या दिनमर्यादाम्मुल्लंघ्य तत्रस्थितवतोः पत्युः समीपे समागतवती
For Private and Personal Use Only
॥८९॥