________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तव संयोगं कारयिष्यामि यत एतादृशेषु महोत्सवेषु अनेकेषां पुंसां सङ्गमो भवति तेन यथेच्छव्यभिचारादिः । इति तामभिमन्त्रय राजकुमारसमीपे गत्वा सर्वं वृत्तान्तमकथयत् । अथ च राजकुमारस्तया संकेतितः रविदिने तत्रायातः सापि श्रेष्ठिकुमारिका तत्रागत्य सूर्यमूर्तिमभ्यर्च्य यावद्वहिर्गन्तुमुद्यता तावदेव कुमार अव - | सरं ज्ञात्वा हस्ताभ्यां तां गाढमालिङ्गितवान् । सा तु एतद् विलोक्य झटिति राजकुमारं मुष्टिना प्रहृत्य कुपिता सती तं निर्भर्त्स्य पश्यत्सु सर्वजनेषु इदमूचे । 'अहो किमिदं मामयं दुष्ट अस्पृशदतो परपुरुषस्पर्शजन्यपातकशुद्धये अभिप्रवेशनमेव वरमतोहमग्निं प्रवेश्ये इति प्रललाप' इत्याश्वर्यं विलोक्य सर्वे एव विस्मिता जाता स श्रेष्ठी च इत्थं श्रुत्वा झटिति तत्रागत्य तां मरणाभिमुखीं विलोक्य बलात्तां गृहमानयत् । अथ पिता अनया लीलया तां सुशीलां मनुत स्म । किन्तु इतः परं सा ढूंढ
For Private and Personal Use Only