________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ८ ) यते अद्य ॥ १ ॥ " व्याख्या सामायिकं समभावः १ समायिकं सम्यग् दयापूर्वकं सर्वजीवेषु प्रवर्तनं २ सम्दग्वादो रागद्वेषभयादिपरिहारेण यथावस्थितकथनं ३ समासः | स्तोकाक्षरैः कर्मनासकस्तत्वावबोधः ४ संक्षेपस्तोकाक्षरा महार्थाद्वादशाङ्गी ५ अनवद्यं निष्पापाचरणं ६ परिणा पापत्या गात्समन्ताद्वस्तुज्ञानं ७ प्रत्याख्यानं परिहरिणीदवस्तु| त्यागः ८ इत्यष्टौ नामानि । अथैषां क्रमेणाष्टौ दृष्टान्ता दर्श्यन्ते । तत्रादौ दमदन्तदृष्टान्तो । यथा ॥ हस्तिशीर्षनगरे दमदन्तो ( नाम ) राजा (आसीत् ) तस्य च एकदा हस्तिनापुरस्वामिभिः पांडवैः कौरवैश्च सह सीमानिमित्तो महान विवादः संजातः । तदनन्तरं कियद्भि| दिनैर्दमदन्ते जरासंधनृपसेवार्थं गते सति पाण्डवैस्तद्देशो भगः । तदा तां वार्तां श्रुला क्रुद्धो दमदन्तः सद्यो बहुसैन्यमादाय हस्तिनापुरोपरि समायातस्तत्र चोभयेषां परस्परं महद्युद्धं संजातं । परं दैववशात्पाण्डवाः कौरवाच भग्नाः । दमदन्तस्तु विजयं प्राप्य स्वस्थानं गतः ।
1
For Private and Personal Use Only