________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भवति यश्च इन्द्रियत्रययुक्तानां जीवानां नाशकः स नासिकारोगी चतुरिन्द्रियघाती । यौ० | अक्षणा काणः अन्धः क्लिन्ननेत्रो वा भवेत्। पञ्चेन्द्रियविनाशकृद्धधिरो भवति यश्च पञ्चेन्द्रिय ॥७॥ विनाशकारी स पटूनीन्द्रियाणि नाप्नोति । तस्माद् भोभव्या ! हिंसानृतादिकं सर्वथा
परित्याज्यम् । इति श्रुत्वा राजा गुरुं पपृच्छ “स्वामिन् ! मदीयः पुत्रः केन कर्मणा । पगुर्जात इति ब्रूहि । गांगिलेनोक्तम् राजन ! अस्य प्राग्मवं शृणु । .
अस्य जम्बूद्वीपस्य ऐरावतनाम क्षेत्रान्तर्वति अलपुरनाम्नि नगरे महेन्द्रध्वजो नामा ? काश्चिद्राजा आसीत् तस्य च उम्मानाम पट्टराज्ञी तयोस्सामन्तसिंहो नाम पुत्रोऽभूत् । स च राजकुमारः पाठशालायां पठनाथं गच्छन् यूतकृतां संगतो द्यूतमेवाहर्निशं कुर्वन् सप्तव्यसनतत्परोऽभवत् । राज्ञा च बहुशो निषिद्धः परं यदा व्यसनसप्तकं न त्यक्तवान् तदायोग्यं तं ज्ञात्वा स्वदेशाब्दहिनिष्कासितः । ततोपि स तदेवव्यसनमभ्यसन् ७७ ।
For Private and Personal Use Only