SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नानादेशेष्वटमानः सुरपुरनाम्नि नगरे समागतस्तत्र पञ्चकनाम्ना केनचित् श्रेष्ठिनातं सुन्दराकार विलोक्य स्वगृहपार्श्ववर्तिनो जिनमन्दिरस्य रक्षकपदेऽवस्थापितः । स च प्रत्यहं मन्दिररक्षां करोति परं पूजनार्थमागतानां देवार्पितवस्त्राभरणफलादीन द्यूतक्रीडाथं प्रच्छन्नं| समादत्ते । अथ कियनिर्दिवसः श्रेष्ठिना तद् ज्ञातं । ततस्तमाहूय श्रेष्ठी उवाच “हे भद्र ! यः पुमान् देवद्रव्यं भुंक्ते स अनन्तकालं यावत् संसारपरिभ्रमणं करोति तस्मात्त्वया अतः परमेतन्न कार्यम इत्यादि समुपादिशत् । तथापि स दुष्टः मिथ्याज्ञानतिमिरावृतो न हि तस्मादुपेक्षते स्म । एकदा देवस्याभरणादिकमपि चोरयामास ततः श्रेष्ठेनेतद्विज्ञाय तमाम भर्त्सनादिकं कृत्वा मिस्साश्यत् । अथ च स दुष्टस्ततो निर्जीविकः वनेषु भ्रमन् मृगयादिना वहून् वन्यजन्तून मृगशशकादीन विनाशयति स्म । तस्मिन्नेव वने एकस्तापसाश्रमस्त त्र च बहवो मुनयस्तपः कुर्वन्तस्तिष्ठन्ति । अतस्तद्धनेभवाः वनचराः मृगाद्यास्तद्रीतिभीता For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy