________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
K. कर्तव्यः मया युवयोवलं सम्यक दृष्टं न हि तत्र भवतां बल एव हेतुर्भवन्तस्तु कारण ?
भूता एव किन्तु अयं सुदर्शनचक्र एव सर्वानशातयत् । एतासामष्टादशाक्षोहिणीनां हनन | रूपः पातकस्तु मत्पादयोरेव वर्तते अत एव मया तस्यप्रक्षालनार्थं गंगा निस्सारिता । सेव पापप्रक्षालनं करिष्यति । इत्याकर्ण्य गंगा पुनरब्रवीत् ‘एवं चेत्तर्हि अहन्तु - ईश्वरस्य शिरसि तिष्ठामि अतः मदीयं पापमीश्वरस्य मस्तके पतति-'--इन्द्रेणोक्तं 'भगवति ! इत्यपि तव भ्रम एव यतो ईश्वरेण ब्रह्मणः पञ्चमशिरस्त्रिशूलेन छिन्नमतस्तत्पातकपरिहाराय स तु त्वां शिरसि धत्ते ततो गंगा प्राह । एवमस्तु परं मम यात्रायां कोऽपि । परदारपरद्रव्यपरद्रोहपराङ्मुखो महात्मा पुरुषस्समायास्यति तच्चरणरजसैवाह पवित्रीभविष्यामि अर्थात् स एव मां पावयिष्यति । इन्द्रेणाक्तं ‘एवंविधस्तु महात्मा स्वर्गे पातालेपि च नास्ति तर्हि मनुष्यलोकस्य का कथा इति श्रुत्वा कुपिता गंगा एता
For Private and Personal Use Only