________________
Shri Mahavir Jain Aradhana Kendra
मो० ए०
॥ ६४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या•
| स्तदा गर्तखननसमये निधिर्निर्गता ततो जाताल्हादः श्रेष्ठी तेन द्रव्येण महाञ्जन्मोत्सवं कृतवान् । अथजन्मतो द्वादशेऽहनि कुटुम्बभोजनतः पूर्वं मातुः ब्रतपालनेन तस्य सुव्रत इति नाम चकार । अथ च स श्रेष्ठिकुमारस्तदनन्तरं शुक्लचन्द्र इवानुदिनमेधमानः || पित्रा शिक्षित सर्वगुणो यौवनं प्राप्तः । तदा महर्द्धिकव्यवहारिणां श्रेष्ठीनां एकादश कन्यका स्तं परिणाप्य गार्हस्थ्यभारं तस्मिन् समारोप्य स श्रेष्ठी प्रवृज्यां गृहीत्वा धर्मेणानशनं | विधाय मृतः स्वर्गतिञ्च प्राप । अय गृहस्वामी सुव्रतः श्रेष्ठी दृशकोटिधनवैभवाद्राज्ये प्रजार्यांचातीव मान्यो बभूव । ततश्चैकदा तामसमीपवर्तिनि वने विहरन्तः शीलसुन्दराचर्याश्वत्वारो ज्ञानिनस्तत्र समायाताः । तेषामागमनन्तु वनपालमुखादाकर्ण्य स श्रोष्ठप्रवरः राजानं समाहूय सकुटुम्वः राजपुरुषैः परिवारितश्च तेषां दर्शनार्थं गतः । तत्र च मुनीनभिवाद्य सर्व एव नृपादयस्तैरनुज्ञाताः यथायोग्यासनेषूपविष्टास्तेषां
For Private and Personal Use Only
॥ ६४ ॥