________________
Shri Mahavir Jain Aradhana Kendra
म० ए०
॥ ६३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भवन एवं तानि सार्द्ध शतैकमितानि कल्याणकनि तेनैषैकादशी सर्वोत्तमा वर्तते । इति श्रुत्वा कृष्णेन पृष्टं 'भगवनस्यामेकादश्यां किं कर्तव्यमस्ति ? नेमिनोक्तम् ' अहोरात्रं पोषधं ग्राह्यं चतुर्विधाहारोपवासश्व कार्यः मौनञ्च धार्य्यम् तत्र भगनं गुणनं विना नान्य त्किमपि वक्तव्यम् पारणदिने च गुरुसमीपे गत्वा तमभ्यर्च्य जिनगृहे देवान् सम्पूज्य गुरुणाज्ञप्तो भोजनं कुर्यादेवं द्वादशवर्षाणि यावत्कार्य्यं । तपसि पूर्णे चास्या उद्यापनं कर्तव्यं । कृष्णोवाच । | भगवन् ! पुरापि केनास्या एकादश्यास्तपः कृतं ? श्रीनेमिनाथः कथयति । सुव्रतनामा श्रेष्ठी अस्या मार्गशीर्षशुक्लै कादस्याः व्रतप्रभावात् शिवपदं प्राप । कृष्णोनोक्तं |' तत्कथं ! ' श्रीनेमिनाथः कथयति
1
धातकीखंडनाम्नो द्वीपस्य दक्षिणभरतोद्धे विजयपुरं नाम नगरमभवत् । तत्र वर्गों नामराजा न्यायवान् प्रजापालकश्चासीत् । तस्य चन्द्रवतीनाम भार्या शीलादिगुणसम्पन्ना
For Private and Personal Use Only
व्या
॥ ६३ ॥