________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सवानेव जो निदेशं श्रावयन् द्रावडसमीपमागत्य तमपि तस्य निदेशं श्रावयामास ।। सच द्वावडः ज्येष्टधातुर्निदेशमाकर्ण्य स्वयमपि प्रतिबुद्धस्सन् ज्येष्ठपुत्रमाय । राज्यसिंहासनेऽस्थापयत् कनिष्ठाय वारखिल्लाय च एकलक्षणामान पृथक् ददौ । स्वयञ्च संसारवासनां परित्यज्य दीक्षा गृहीत्वा यथेच्छं पर्यटन् श्री ऋषभदेवजिनपार्थे
तपस्तपूत्वा कैवल्यं प्राप । अथ दाडः पित्रा दत्तं स्वराज्यं वारखिलश्च एकलक्षयासमान धर्मेण पालयामास । अथ गते कियति काले दावडो मनस्येवं व्यचिन्तयत् ।।
अहो ! पित्रा इदं साधु न कृतं यदाज्यात् एकलक्षग्रामं पृथक् कृत्वा कनिष्टपुत्राय वारखिल्लाय प्रदत्तमतो बलपूर्वकमहमेनं बहिनिस्सार्य ग्रामान् गृहीष्यामि । इति निश्चित्य स्वसैन्यमादाय भ्रात्रा सह युद्धार्थमगमत् । वारखिल्लोपि युद्धार्थ | मायातं स्वज्येष्भातरमाकर्ण्य बहुलया सेनया परिवृतो युद्धार्थमाययो । अथ तयो ।
-
For Private and Personal Use Only