________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(
"
पंचम्यः विधिना तेन कृताः कार्तिक शुक्ल पंचमीदिने पणादि महोत्सव मुद्यापनविधिना चक्रे नमो नाणस्स इत्यष्टोतरशत सहस्रमितं जजाप च ततः कियता कालेन वरदत्तस्य तत्पर्वप्रभावात् सर्वा एव रोगाः विलयं गताः रूपलावण्ययुक्तं च तच्छरीरमभूत् । ततोऽन्यदेशीयाणां नृपाणामेकसहस्रमिताः राजकन्यकास्नेनोद्वाहिताः
सा च श्रेष्ठिपुत्री गुणमञ्जरी अपि गृहमागत्य यथोक्तविधिना पञ्चमीत्रतमाराधयति स्म तेनाचिरेणैव कालेन रूपलावण्ययुक्ता जाता रुजश्च सर्वा एव तस्याः सद्यो विलयं गताः तस्याः पाणिग्रहणञ्च जिनचन्दननामा कश्चित् महाधनाढ्यो रूपयौ वनसम्पन्नः जिनधर्मानुयायी श्रेष्ठिकुमार अकरोत् तौ च दम्पती यावज्जीवं सुखेन शरीरयात्रां निर्वाहयित्वा कालेन मुरलोकं प्रापतुः ।
वरदत्त अपि धर्मेण चिरं राज्यं पालयित्वा मृतस्सन् पुष्पमालावतीविजये
For Private and Personal Use Only