SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ज्ञान० ॥ ५१ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च तयो आसपाल ( १ ) तेजपाल (२) गुणपाल (३) धर्मपाल ( ४ ) धर्मसारे ( ५ ) ति | पञ्चपुत्राः लीलावती ( १ ) शीलवती ( २ ) गंगावती ( ३ ) गंगे ( ४ ) ति चतस्रश्च कन्यकास्समभवन- जिनदेव श्रेष्ठिना स्वकीयाः पञ्च एव पुत्राः पठनार्थं गुरुसमीपे | प्रेषिताः परं ते पंडितेन पाठ्यमाना अपि झटिति रुदन्तो मातुस्समीपमागत्य तिष्ठन्ति स्म | माता च स्नेहवशात्तानाश्वास्य लाडयाभास ब्रूते च हे पुत्रकाः ! एतादृशेन पठनेनालं यदि न रोचते चेद्यथेच्छं क्रीडत, पठनेन किं भविष्यति ? इति सम्भाष्य तेषां पुस्तकपट्टिकादीनग्रौ प्राक्षिपत् पंडितं चाहूयाभर्त्सयत् एवं कियति काले गते | मात्रा लालमानारहर्निशं क्रीडामेव कुर्वन्तस्ते यौवनं प्राप्ताः पुत्रिकाश्चापि क्रमेण संजातयौवनाः बभूवुः । अथ च जिनदेवस्तान स्वपुत्रान् विद्यया रहितान् विज्ञाय पत्नीम कथयत्-भद्रे ! इमे पुत्रास्त्वया न पाठिताः अतो विद्यां विना कथं स्वां For Private and Personal Use Only व्या ॥ ५१ ॥
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy