________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्युभयलोके न सिद्धयतः यतो ज्ञानेन विना जीवा अपि जीवान न जानन्ति अतो ज्ञानमेवाराधनीयम् । ये च पापिष्ठाः मनसा ज्ञानं निन्दन्ति तेषां मनः शून्यं ।
भवति, वचसा तद्विरोधनेन मूकत्वं मुखस्तम्भं च भवति कायेन ज्ञानविरोधात K|कुष्टादिमहारोगाणां प्राप्तिः, त्रिभिरेभिर्मनोवचनकायामिस्तद्विरोधात् धनधान्यपुत्रकलत्रा
दीनां क्षयो नानाविधदुःखस्य च प्राप्तिर्भवति इति उपदेशं कुर्वति तस्मित् तदवसरं विज्ञाय सिंहदासेनोक्तं “भगवन् ! एतदेवाहं पृच्छामि यदस्या मम पुत्र्याः गुणमञ्जाः शरीरे केन कर्मणा ईदृग्विधा रोगाः समुत्पन्नास्तेनातीव दुःखितोहंमतः कृपयास्याः कर्माणि ब्रवीतु भवन्तः" स मुनिरित्थं श्रुत्वा प्रत्युवाच ।। | भोश्रेष्टिन ! अस्याः पूर्वकर्मकथां शृणु । धातकीखण्डद्वीपमध्ये पूर्वदिशि खेटक नाम नगरमभवत् तत्र जिनदेवनामा श्रेष्ठी वसति स्म । तस्य सुन्दरी नाम भार्यासीत् । अथ ||
For Private and Personal Use Only