________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
। व्या
ज्ञान
" ५०
www.kobatirth.org श्रेष्ठिना तस्या उपचारार्थ अनेकान् वैद्यानाहूय बहुशो भेषजादिकमपि कारितं परं न मनागपि व्याधेः शान्तिर्जाता अतस्तस्या दुःखेन सर्व एव परिवारो दुःखितस्सन् विमना आस्ते । अथैकदा श्रीविजयसेनाचार्याभिधः कश्चिजैनसिद्धो ज्ञानवान्मुनिः स्वशिष्यवृन्दैः परिवारितो यथेच्छं पृथिव्यामटन् तत्र समागत्य ग्रामावहिस्तपश्चर्यार्थ तस्थौ । तस्य दर्शनार्थं सर्व एव नगरनिवासिनः सपरिवाराः गच्छन्ति स्म । तत्प्रभावं जनमुखाच्छुला स सिंहदासोपि सकुटुम्बस्तदर्शनार्थमाययो राजा चापि पुत्रसहितो मन्त्रिभिः परिवृतस्तदर्शनार्थमगमत् । ते च सर्वे तं महात्मानं प्रणम्य तदनुज्ञापिता आसनेषूपविष्टाः ज्ञानमहिमां पपृच्छुः । स उवाच, भो भव्याः ! इदं विश्वं ज्ञानसारमेवास्ति अतो सर्वैव ज्ञाने भक्तिविधेया न हि कदापि ज्ञानस्तु निन्छः मनसा वचसा कायेन च ये ज्ञाननिन्दां प्रकुर्वते तेषां कदाचिदः
11५०||
For Private and Personal Use Only