________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।
कालेनाष्टादशवर्ष प्रति समागते वयसि वाद तस्याष्ट दशविन कुष्टेन सर्वशरीरं व्याप्त तेन महान् दुःखितो बभूव । राजपुरुषा राजा राज्ञी च पुत्रशरीरं कुष्टरोगव्यापितंदृष्ट्वा तीव चिन्नाकुला बभूवुः । एतस्मिन्नेव समये अस्य राज्ञः राजधान्यां श्रीसिंहदासनामा कश्चित् श्रेष्ठी वसति तस्य कतिलका नाग जिनधर्मपरायणा काचित् पत्नी आसीत् तयोर्गुणमंजरी नाम पुत्री बभूव सा क्रमेण यौवनं प्राप्ता सती पूर्वकर्मवशात् बहुभिः कुष्टाद्यसाध्यरोगैः परिवृता मुखतो मूका च बभूव । तस्य श्रेष्ठिनः सप्तकोटिमितं धनमस्ति । अथ च श्रेष्ठी जातयौवनां पुत्रीमुद्राहयितुं यतते स्म परं न कोपि तां बहुरोगिणी मूकां च श्रुत्वोद्वाहयति येषां पुरतस्तस्याः सम्बन्धवाती करोति त एव कथयन्ति । अहो ? कुष्टव्याप्तशरीरायाः वक्तुमप्यसमर्थायास्तव पुन्याः सह को नामपुमान पाणिग्रहणं कुर्यात ? यस्याश्च दृष्टमात्राया एव ग्लायते नितरां चेत इति ।
For Private and Personal Use Only