________________
Shri Mahavir Jain Aradhana Kendra
ज्ञान०
॥ ४९ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०
अथ ज्ञानपञ्चमी व्याख्यानं प्रारभ्यते ।
ज्ञानं सारं सर्वसंसारमध्ये, ज्ञानं तत्वं सर्व तत्वेषु नित्यं । ज्ञानं ज्ञेयं मेोक्षमार्ग प्रवृत्यै, तस्माद्ज्ञानान्नापरो मुक्ति हेतुः ॥ १ ॥ ज्ञानप्राप्त्यैतु कार्तिक शुक्लपञ्चम्या आराधनं युक्तं तस्या एव महात्म्यं कथा प्रसंगे यथा । जम्बुद्वीप न्तर्वतीने भरतक्षेत्रे पद्मपुरं नाम नगरमासीत् । तत्र च महान् वीर अजित सेननाम राजा वभूव तस्य सर्वलक्षणसंयुक्ता यशोमती नाम पट्टराज्ञी, तयोर्दम्पत्योः वरदत्तनामा कुमारोऽभूत् । सत्र रूपलावण्ययुक्तः द्विसप्ततिकलानिधिरष्टवर्षीयो विद्याध्ययनार्थं पण्डितमाहूय राज्ञा समर्पितः पण्डितश्च तमानीय सादरं पाठयति परं स चाक्षरमपि मुखेन नोच्चारयति किं पुनः पठनवार्ता ? | अथ कालेन स | राजकुमारः सम्प्राप्तयौवनो वभूव परं किञ्चिदपि विद्या न समधिगता । ततः कियता
For Private and Personal Use Only
॥ ४९ ॥