SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शरीरः कपिलकेशस्तीक्ष्ग नेत्रः गर्दभगलः नागलाञ्छतो विशालहृदयः शीलगुगरहित ईदृशः कलंकी - तज्जन्मनः पञ्चमे वर्षे दुर्भिक्षः सप्तने अभ्युपद्रवः एकादशे धनप्राप्तिरष्टादशे वर्षे कार्तिक कृष्णप्रतिपत्तिथौ स्वात्तिनक्षत्रे तुलराशिस्थिते चन्द्रमसि चवकरणे शुभवेलायां रावणमुहूर्ते महाराजस्वास्थ कलंकिनः पट्टाभिषेको भविष्यति, तदा स दुष्टः रौद्ररूपधृक्क महातेजस्वी राजमदान्वितः बहुव्यव्ययेन विक्रमसम्वत्सरमुत्थाप्य स्वयं सम्वत्सरं प्रवर्तयिष्यति एष च एकविंशतिमे वर्षे भरतार्द्धविग्रहिणो कर्पगनृपस्य सुतां परिणेष्यति सर्व एव तत्समकालीना भूपालास्तस्य सेवां करिष्यन्ति । स च पाटलिपुरे | स्वं राज्यं पालयिष्यति म्लेच्छैस्सह क्षत्रियाणां महीयान् विग्रहो भविष्यति यस्मिन्नेषा भूमिः रुधिरार्द्रा भविष्यति । तत्कोशे च नवनवतिकोटिपरिमितं धनं चतुर्दश सहश्राणि हस्तिनः सप्तलक्षाश्च रथाः चतुर्दशलक्षाश्चाश्वाः पञ्चकोटिपदातयश्चेत्येवंविधा तस्य महती For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy