________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
बृहत्कायश्चितुरोजगरभुजंगानद्राक्षीत । यदा चोपरि वीक्षते, तर्हि यां जटां स्वयमवलम्ब्य स्थितोऽस्ति तामेव जटामेकः कृष्णोदुरोऽपरश्च शुक्लोन्दुरुरित्थं द्वौ मूषको कुन्ततः । एतदवसरे गजेनागत्य वटवृक्षो विधूनितः। भूयो भूयोऽतिकम्पनेन तत्स्थान्क्षौद्रपटलान्मधुमक्षिका उड्डीय २ तं पुरुषं ददंशुः । क्षौद्रपटलश्चापि विशीर्ण, तस्मात् स्थित्वा २ मधुनो बिन्दवः पुरुषस्य भालमभिपेतुः । ततो मन्द मन्दं प्रवहन्तस्ते विन्दवस्तस्याधरं पस्पृशुस्तान् स जिह्वया लेदि तदा तन्माधुर्यमुपलेभे । पश्चात्सोऽसकृत च्योतस्सु मधुचिन्दुषु प्रसक्तः पुरुषो विमानमधिरा गच्छता केनाऽपि विद्याधरदेवेनाऽऽकारितः । भोः पुरुष ! त्वमिमं विमानमधितिष्ठ, व्रज चास्माभिः साकम, अहन्त्वां व्यसनादस्मान्मोचयिष्यामि । इत्थं पौनापुन्येनोक्तोऽपि यथा स पुरुषो मधुविन्दुरसलुब्धो देवेन सह नो जगाम । तथैवायं सांसारिकजीवोऽपि संसारमध्ये मधुबिन्दुसदृशेषु विषयभोगेषु क्षणभंगुरेषु रतो देवविमानप्राप्तितुल्यं सद्धर्म तीर्थकरादिनोक्तं नाङ्गीकरोति । अत्रैवमुपनयमवतारयति-अस्मिन् संसारे चतुरशीतिलक्षयोनिरूपाटवी, तत्राऽनादिकालतो मिथ्यात्विनः प्राणिनो भृशं भ्रमन्ति, उक्ताटव्यां जरामरणमेव कूपो विज्ञेयः, तस्मिन् पृथक पृथगष्टप्रकृतिस्वरूपाण्यष्टकमण्येव जलम, पुनस्तत्र नरकतिर्यंचगतिरूपाजगरावतिदुःखप्रदौ चतुष्कपायरूपाश्चत्वारो बृहत्काया विषधराः, शुक्लकृष्णपक्षरूपौ मूषको मृत्युमतंगजकपितस्यायुर्घटस्य जीवनजटां कुन्ततः, पुनर्वियोग-रोग-शोक-मोग-संयोगादय एवं मधुमक्षिकादशनानि सन्ति । तत एवं स्थितौ सद्गुरुरूपेण विद्याधरदेवेन धर्मविमानं संस्थाप्याकारिता अपि मधुधिन्दूपमेषु पंचेन्द्रियविषयमोगेष्वासक्ता मिथ्यादृष्टयस्तं सुगुरुमनादृत्योक्तविशेषण विशिष्टभवकान्तारमटन्तीति सम्बन्धो विज्ञेयो धीधनैः सज्जनः ॥ २॥
यदुक्तं जम्बूस्वामिना स्वभायाँ प्रति दोहा
For Private and Personal Use Only