________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
उपानही मया दत्ते, जीणे कर्णविवर्जिते । तत्पुण्येन गजारूढ-स्तद्गतं यन्न दीयते ।। १ ।।
अथ मायाविषु मायिभिर्भवितव्यं तत्र २८-कथापर्षद्यन्यकविः करोत्यभिनवं भोजस्य काव्यं तदा, श्रुत्वाहुश्च पुरातनं कविजना भूयोऽपि किं तेऽपठन् । राज्ञा तैश्च तिरस्कृतः प्रतिदिनं वादोऽभवचैकदा, कृत्वा वेधयुतं स्थिता विमनसो लक्षं च लात्वा गतः।।२९।।
कदाचिद् भोजराजस्य परिषदि कोऽपि नव्यः कोविदः समाययौ । स प्रत्यहं भोजराजं नृपं श्लोकैरुपश्लोक्याऽऽशीर्वचोभिरैदिधत् । परं तनिर्मितपद्यानि कल्मषधिया संसदि निषण्णाः कालिदासादयः कवयः प्रतिघस्रं प्रत्याख्याय क्षिपन्ति स्म । अथ च महीपतिमुक्तवन्त:-राजन् ! कवेरस्य कृतिः पूर्वकविकल्पितैव, एतत्काव्यं त्वस्माभिरपि प्रागेव स्मृतिविषयता नीतम् । तदा धाराधिपेन भोजेन पृष्टास्ते श्रुतघराः कालिदासादयः कवयः कण्ठतः समुदाजहुः । तदानीं नृपः सुकविमक्मत्य बहिवकार, एवं नित्यं वाकलहः प्रागर्तत । ततः पण्डितोऽपि स्वापमानेनातर्दग्धो वेषयुक्तं काव्य चक्रे। स्वकाव्योचारणेऽक्षमांस्तान कालिदासादिकवीन क्षीणप्रभान् कृत्वा नृपतिसकाशाल्लवं द्रव्यं जग्राह ।। २९ ॥ तत्कवेः सैपा कविताभोज! स्वराजराजः क्षितिपतितिलको धार्मिकः सत्यवादी,पित्राते या गृहीता नवनवतियुता हेमकोटयोमदीयाः। त्वंता देहि त्वदीयैः सकलबुधजनैयिते सत्यमेतत् ,नोजानन्ति त्वदीयाः सकल बुधजना देहि लक्ष तथापि
तदर्थः-भो भोजनृपते ! त्वं राज्ञां मध्ये स्थासक इव, धर्मिष्ठः सत्यवक्ता चाथ निजान्वयस्य सुषमाकरोऽसि, परं तव तातेन 12
For Private and Personal Use Only