________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एष पाटलः कथं कुसुमितः फलित १ । तनिशम्य बुधोऽवदत् रे मातृशासित ! एष पालाशविटपो, न पाटलः । ततो मन्द ऊचेत्वं कि जानीषे १ एष तु पाटलः । इत्थं मिथो विवदितुं प्रारेमाते । ततोऽतीव रोषविवशो बालिशो यष्टिमादाय प्राज्ञं हन्तुमुद्यतस्तदानीं पण्डितेनाश्वादि-भोः ! कथं मां तुदसि ? अथ च कविरपि पीडनवशात्पाटलः पाटल इति मुहुर्व्याजहार ॥ २३॥ अत एवोक्तमपि - पलाशं पुष्पितं दृष्ट्वा, मूर्खो वदति पाटलम् । यष्टिमुष्टिप्रसादेन, झोग्यकू पाटलपाटलः ॥ १ ॥ मूर्खदम्पत्योः कदाचरणोपरि तयोः २३- कथानकम्
लात्वा स्त्रीं पथिको गृहात्प्रचलितो ग्रे सनीरां नदीं दृष्ट्वा साऽऽह धवं ममांघ्रियुगले रंगोऽस्ति संगृह्य सः । तस्या: पादयुगं हि कर्षति सरितीरे गतः सा मृता, न्यस्ता मूढ ! कृतं किमाइ मतिमान्नष्ठा न रंगस्थितिः || २४|| अथ कचिदाध्वनिकः स्वकान्तां श्वशुरसद्यनः समादाय स्वावासं प्रति प्रस्थितः । मार्गे यान्त्या सरित्प्रवाहं प्रपश्य प्रियया स्वामिनं प्रत्युक्तम्- भोः प्राणनाथ ! ममाघ्रियुगले निषक्तो रंगो यथा नापमृज्येत तथा विधीयताम् । तदनु ना तच्चरणावत्पाट्य करनासं जले न्यस्य चलितः । यावत्स स्रवन्तीपारं प्राप्तस्तावदेव सा नासाऽऽस्यश्रुतिषु पयः पूरेण कीनाश निकेतनमभ्येत् । तदा गतासुमहिषीमिव समाकृष्य सरितटमानिनाय । नत्र स्थितः कविद्धीमान्भरस्तमचकथत्-रे मूढ ! किमेतदनुष्ठितम् ? यस्मादेषाऽचेतना संवृता । तस्मात्कथमेनामधोमुखीं नीरमध्यादानीतवानसि । मन्दप्रज्ञेनाऽप्यवादि-यदहं कृतवानस्मि तदवगत्यैव यद्यपि ममार सा परं तच्चरणयो रंगस्थितिस्तदवस्थैव ॥ २४ ॥ कथितञ्चापि
For Private and Personal Use Only