________________
Shri Mahavir Jain Aradhana Kendra
धान्य॥९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथाऽदातरि याचकयाचा मोघा जायते, तत्र २१-कथा
द्वारस्थं गजचित्रकं ह्यलिरिहाऽऽदानस्य दृष्ट्वाऽऽगतः, तद्गुण्डे स्थितवांस्तदाह कविराड् ध्यात्वाऽऽशु तं षट्पदम् । अत्राऽऽलेक्षि कथं स्थितोऽसि जड रे! दानप्रदा वारणा-स्ते सर्वेऽपि वने वसन्ति च गिरौ त्वं तत्र याहि द्रुतम् ॥ २२ ॥ मधुकरो द्वारदेशे चित्रस्थं करिणं विलोक्य विवेकवैकल्याद् मदगन्धमाघ्रातुं तत्राप्यासीत् । अथ च गजगण्डस्थलमासीनः वलं जुगुञ्ज । तस्मिन् क्ष्णे कश्चित्कविः स्वात्मनि विचार्य भ्रमरं वक्तुमुपचक्राम । रे गूढ मधुलिट् ! त्वं कस्मादत्र निषण्णोऽसि अस्मात्ते प्रयोजनं न सेत्स्यति । मदप्रदायको वारणो नाऽसौ दानवारिमुचः सर्वेऽपि गन्धहस्तिनो विपिने कुध्रेषु वा वसन्ति । करिदान गन्धलिप्सा चेतर्हि मक्षु तत्रैव प्रयाहि ||२२|| गीतमपि —
रे चंचरीक ! मदलोलक पोल वासी, भित्तिस्थनागवदनेऽत्र कथं स्थितोऽसि ? | ये दानदा घनघना घनघोरशब्दा-स्ते वारणा वरतरा विपिने वसन्ति ॥ १ ॥ अथ मूर्खेः सह श्रीमतां वादो न युज्यते, तत्र तयोः २२-कथा
मूखौ पार्थ गच्छतः कुसुमितं ताभ्यां पलाशद्रुमं दृष्ट्वा वक्ति हि पाटलं जडमतिज्ञों मूर्ख ! नो पाटलः । वाद तौ कुरुतो जडेन सुकविर्यष्ट्यादिभिस्ताडितो, यष्ट्या मुष्टिवशाद् विमुंच जड रे भोः! पाटलःपाटलः । २३। "पुरा कदाचिद् बालिशकोविदों वर्त्मनि व्रजतः स्म । तत्र मार्गमध्ये पुष्पितः किंशुकपादपो व्यलोकि । तदा कुधीर्वक्ति
For Private and Personal Use Only
शतकम्
118 11