SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शतकम् घटान्त॥७॥ REKXXXXXXKARAULBURBIBADAL पात्राण्यभांक्षीः । ततोऽभ्यधायि तेन-अस्मरक्षेत्रं तव महिण्या खादितम् । ततो द्वावपि कलि प्रशाम्य कथितुमारेभाते । भगो! महिषी क्वाऽऽनायिताऽस्ति सांप्रतम् । ततः प्राज्ञेनोक्तम्-महिष्या ऋते दुग्धतरीमुद्दिश्य कस्माद् विप्रवदथो युवाम् ? तत्क्षणे तेनोभावपि विद्वद्वाक्यं हितकरं मन्यमानौ सर्वत्र हास्यजनक निष्प्रयोजनं निजकलि त्वरितं विहाय मिथो बद्धानुरागावभूताम्॥१६।।यत:दोहा-घरे भैस आणी नहीं, भांग्या भांडा सात, झगडो तो दम्पती करे, दूध तरीनी बात ॥१॥ एनो तो झगड़ो सुणी, पण्डित आयो दोडि, झगड़ो तेणे भजियो, डोबर सघला फोड़ि ।।२।। अथ कौतुकिनः सविधे विदुषोऽपि विद्या मोघा भवति तत्र १६-दृष्टान्तःभूपान्ते द्रविणेच्छया कृतिगमे दत्तं न किञ्चित्कदा, वीक्ष्येशो नटनाटकं बहुधनं तस्याशु सोऽदादतः । गेहेऽवक स्वजनान्न तत्र पठने यत्नस्तु कार्यो विदा, कर्तव्यं नटनाटकं च भवतां द्रव्यं नृपो दास्यति ॥१७॥ कश्चिज्ज्ञो द्रविणेच्छया कस्यापि धरणीधवस्य सकाशं सेवितुं गतः । उर्वीशं सेवमानस्य तस्य घना घस्रा व्यतीयुः। परं वित्तगन्धोऽपि नाऽऽसादितः। एतस्मिन्नन्तरे जातु नृपतिनंटानां नत्यं च निभाल्य प्रीतः सन् प्रभूतं स्वं ददौ। इत्थं भूभुजश्चरितमालोक्याऽबाङ्नेत्री ज्ञः समचिन्तयत्। यदस्मदधीता सर्वा विद्या वृथैव जाता। ततः सहसैव निजावासमेत्य स्खशिष्यांश्च बक्तुमुपचक्रमे । पदप्रमाणकाव्यच्छन्दोऽलंकारादीनध्ये किमर्थ परिश्राम्यथ, यतस्तेभ्यो न प्रसत्स्यति कदापि प्रजानाथः । किन्तु नटनाटकादीननुशीलयिष्यथ तर्हि राज्ञः सकाशादनल्पं द्रविणमाप्स्यथ । यतः सारासारविवेकक्षमो नास्ति महीपालः, किंतु कोतुकबीक्षणपरः॥ १७॥ उक्तं च ॥ ७ ॥ For Private and Personal Use Only
SR No.020322
Book TitleDrushtant Shatakam
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1941
Total Pages93
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy