________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
दृष्टान्त
शतकम्
तद्विलोक्य जलवाहिकाः समवोचन्-अरे ! नस्त्वं मूढः प्रतिभासि । मावशासितः समपृच्छत् भवतीभिः कैर्लक्षणैर्मे मौढ्य कलितम् । ततस्ता ऊचुः-अञ्जलिपुटं मुखादपनयसि न, शीर्षश्च विधूनयसि ततो निर्भाग्यः संलक्षितोऽसि ।। १३ ॥ उक्तमपि-स्वदेशे परदेशे वा, यत्र गच्छति निर्मतिः। तत्रापि प्रकटं भावि, यथा मस्तककंपकः ॥१॥
अथ मरखेंशिष्यो न कर्तव्यस्तत्र कस्यचिद् यतिशिष्यस्य १३ दृष्टान्त:पूस्थौ शिष्यगुरू विनेयक इतो भक्तात्सुलब्धा वटा, द्वात्रिंशत्पमिताश्च चिन्तयति मेन्पिश्चकृत्वो गुरोः। सोऽनित्ति तदाध्वनीहवटकस्तस्यक्षितोऽन्याकहो,जग्धाः पूज्य! मया कयं? निजमुखे निक्षिप्य शेषोऽदितः।१४
कस्मिश्चित्पत्तने यतिस्तच्छिष्यश्चोभावपि न्यवात्ताम् । एकदा शिष्यो भिक्षामटितुमाट, तत्र कोऽपि भक्तजनो द्वात्रिंशद्वटकानदात् । मार्गमध्ये भिक्षुश्चिन्तयामास-विभक्ते सति गुरोः षोडशवट कास्त्ववशिष्यन्ते, शेषांश्चाग्रीति चिन्तयमेव जघास । मनागेव चलितः पथि व्यचिन्तयत् । गुरोस्वविदितमस्ति, तस्माद् गुरवे विभज्य निहितेभ्यो वटकेभ्यः समविभागमश्नामीति विमृशन्नेवाश । पुनरीषन्मार्गमतिक्रम्य यावद्गच्छति तावश्चतुरो वटकानपरानभुंक्त । इत्थमेव क्रमेण द्वावेक इति कृत्वा भुञ्जतस्तस्यैकवटक एवाशिषत् । पश्चादुपाश्रयमियाय, तदा गुरुणा भिक्षाऽमत्रं निभाल्य पृष्टः। भोः शिष्य ! एक एव वटकः केनोपाहृतः। शेषाश्च क गताः? शिष्यस्तदा प्रोवाच-भगवन् ! अर्धममिति मार्ग परिकल्प्यकत्रिंशद्भटकानहममक्षयम् । गुरुणा पृष्टा-कथमखादीः? तदाऽऽननं व्यादाय वटकमेक निक्षिप्य गुरुमचकथत् । पश्यत्वार्य ! एवंकारमशितमिति ॥ १४॥ कथितश्चापि
मूर्खशिष्यो न कर्त्तव्यो, गुरुणा सुखमिच्छता । विडम्बयति सोऽत्यन्तं, यथा हि वटभक्षकः ॥१॥
STORogaroo
॥
For Private and Personal Use Only