________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
प्रकटितपुलकेव सा स्त्रवन्ती विदलितशैवलराजिमञ्जरीभिः । सरलिततरलोमिबाहुदण्डा प्रणयभरादिव दातुमङ्कपालिम् ॥ १४ ॥ स्मितमिव नवफेनमुद्वहन्ती प्रथममनल्पसरोजकल्पिता; । कलविहगरौवरवालपन्ती व्यतनुत पाद्यमिवाम्बुभिर्वधूनाम् ॥१५॥(युग्मम्) उपनदि पुलिने प्रियस्य मुक्तामणिमयभूषणभाजि वक्षसीव । खयमुपरि निपत्य कापि रागान्मुहुरिह लोलयति स्म चञ्चलाक्षी ॥ १६ ॥ प्रणिहितमनसो मृगेक्षणानां चटुलविवर्तितनेत्रविभ्रमेषु । प्रविदधुरधिकस्टहां ह्रदिन्यां चलशफरीस्फुरिते क्षणं युवा नः ॥ १७ ॥ उपनदि नलिनीवनेषु गुञ्जत्यलिनि निमीलितलोचनः कुरङ्गः । तटगतमपि नो ददर्श सैन्यं नहि विषयान्धमतिः किमप्यवैति ॥ १८ ॥ कथमपि तटिनीमगाहमानाश्चकितदृशः प्रतिमाछलेन तन्व्यः । इह पयसि भुजावलम्बनार्थं समभिसृता इव वारिदेवताभिः ।। १९ ॥ अधिगतनदमप्यगाधभावैः सलिलविहारपरिच्छदं वहन्त्यः । प्रणयिभिरथ धार्यमाणहस्ताः प्रविविशुरम्भसि कातरास्तरुण्यः ॥ २० ॥ अविरलपलितायमानफेनं वलिनमिवोर्मिभिरङ्गमुद्दहन्ती । जतुबहलवधूपदप्रहारैरजनि सरिजरती रुपेव रक्ता ॥ २१ ॥ ध्वनिविजितगुणोऽप्यनेकधायं रटति पुरः कथमत्रपो मरालः । इति समुचितवेदिनेव तन्व्याः स्थितमिह वारिणि नूपुरेण तूप्णीम् ॥२२॥ प्रसरति जललीलया जनेऽस्मिन्बिसवदनो दिवमुत्पपात हंसः । नवपरिभवलेखमुन्नलिन्या प्रहित इवांशुमते प्रियाय दूतः ॥ २३ ॥ पृथुतरजघनैनितम्बिनीनां स्खलितगतिः पयसामभूत्प्रवाहः । अधिगतवनितानितम्बभारः कथमथवा सरसः पुरः प्रयाति ॥ २४ ॥ अपहृतवसने जडेन लौल्याजघनशिलाफलके नितम्बवत्याः । करजलिपिपदात्तदाविरासीद्विषमशरस्य जगज्जयप्रशस्तिः ॥ २५ ॥ कथमधिक गुणं करं मृगाक्षी क्षिपति मयीह वनान्तमाश्रितायाम् । इति विदितपराभवेव लक्ष्मीः सपदि सरोजनिवासमुत्ससर्ज ॥ २६ ॥ १. वलीयुक्तम्.
For Private and Personal Use Only