________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३ सर्गः] धर्मशर्माभ्युदयम् । - ९१ निवसनमिव शैवलं निरस्य स्टशति जने नवसङ्गभाजि मध्यम् । वदनमिव पिधातुमुद्यतोमि प्रसरकराथ सरिद्वधूश्चकम्पे ॥ २७ ॥ पृथुतरजघनैर्विलोड्यमाना युवतिजनैः कलुषत्वमाश्रयन्ती । स्वपुलिनमुपसर्पिभिः पयोभिः सरिदुपगोपयति स्म लजितेव ॥ २८ ॥ प्रतियुवति निषेव्य नाभिरन्ध्रेष्वभिनवविन्ध्यदरीप्रवेशलीलाम् । अभजत गुरुगण्डशैलयुक्त्या स्तनकलशाग्रविघटनानि रेवा ॥ २९॥ वरतनुजघनाहतैर्गभीरप्रकृतिभिरप्यतिचुक्षुभे पयोभिः । इह विकृतिमुपैति पण्डितोऽपि प्रणयवतीषु न किं जडस्वभावः ॥ ३० ॥ समसिचत मुहुर्मुहुः कुचाग्रं करसलिलैर्दयितो विमुग्धवध्वाः । मृदुतरहृदयस्थलीप्ररू ढस्मरनवकल्पतरोरिवाभिवृद्ध्यै ॥ ३१ ॥ स्तनतटपरिघहितैः पयोभिः सपदि गले परिरेभिरे तरुण्यः । अधिगतहृदया मनस्विनीनां किमु विलसन्मकरध्वजा न कुयुः ॥ ३२॥ हृदि निहितघटेव बदतुम्बीफललुलिताङ्गलतेव कापि तन्वी । इह पयसि सविभ्रमं तरन्ती पृथुलकुचोच्चयशालिनी रराज ॥ ३३ ॥ तटमनयत चारुचम्पकानां स्त्रजमबलागलविच्युतां तरङ्गैः । निजदयितरिपोरिवौववह्नेः प्रचुरशिखापरिशङ्कया स्त्रवन्ती ॥ ३४ ॥ प्रियतमकरकल्पितेऽङ्गरागे प्रथममगान्न तथा क्लमं सपत्नी । अनुनदि सलिलैर्यथापनीते नखपदमण्डनवीक्षणान्मृगाक्ष्याः ॥ ३५॥ नवनखपदराजिरम्बुजाक्ष्या हृदि जलबिन्दुकरम्बिता बभासे । वरसारदुपढाकितप्रवालव्यतिकरदन्तुररत्नकण्ठिकेव ॥ ३६ ॥ सरभसमधिपेन सिच्यमाने पृथुलपयोधरमण्डले प्रियायाः । श्रमसलिलमिषात्सखेदमश्रूण्यहह मुमोच कुचद्वयं सपत्न्याः ॥३७ ॥ प्रियकरसलिलोक्षितातिपीनस्तनकलशोत्थितसीकरैस्तरुण्याः । प्रतियुवतिरथर्वसारमत्राक्षरनिकरैरिव ताडिता मुमूर्छ ॥ ॥ ३८ ॥ अहमिह गुरुलजया हतोऽस्मि भ्रमर विवेकनिधिस्त्वमेक एव । मुखमनु सुमुखी करौ धुनाना यदुपजनं भवता मुहुश्चुचुम्बे ॥ ३९ ॥
For Private and Personal Use Only