________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९२
काव्यमाला ।
इति सरसिरुहभ्रमात्प्रियाणामनुसरते वदनानि षट्पदाय । रतिरसरसिकोऽपि लज्जमानः किमपि हृदि स्टहयांबभूव कामी ४० (युग्मम्) प्रियकरसलिलैमनस्विनीनां न्यशमि हृदि प्रबलोऽपि मन्युवह्निः ।। अविरलमलिनाञ्जनप्रवाहो नयनयुगान्निरगादिवास्य धूमः ॥ ४१ ॥ अपहृतवसने जलैनितम्बे निहितदृशं करकेलिपङ्कजेन । प्रियमुरसि विनिघ्नती स्मरस्य स्फुटमकरोत्कुसुमायुधत्वमेका ॥ ४२ ॥ मुखतुहिनकरेऽपि संहतेन स्तनयुगलेन तुलां कुतोऽधिरूढे । इति जघनहतं पयो वधूनां रजनिवियोगिविहंगमौ निरासे ॥ ४३ ।। सरभसमिह यत्तटात्पतन्त्यः प्रविविशुरन्तरशङ्कितास्तरुण्यः । घनपुलक इवाशयो जलानां तदितत्रुद्दविन्दुभिर्वभूव ॥ ४४ ॥ प्रियकरविहितामृताभिषेकैरुरसि हरानलदग्धविग्रहोऽपि । प्रतिफलितचलहिरेफदम्भादजनि सजीव इव स्मरस्तरुण्याः ॥ ४५ ॥ निपतितमरविन्दमङ्गनायाः श्रवणतटादतिदुर्लभोपभोगात् । मधुकरनिकरखनैर्विलोले पयसि शुचेव समाकुलं रुरोद ॥ ४६ ॥ अविरललहरीप्रसार्यमाणैस्तरलदृशश्चकितेब केशजालैः । स्तनकलशतटान्ममज्ज पत्रान्तरमकरी मरितः पयस्यगाधे ।। ४७ ॥ अभजत जघनं जघान वक्षस्तरलतरङ्गकरैश्चकर्ष केशान् । विट इव जलराशिरङ्गनानां सरभसपाणिपुटाहतश्रुकूज || ४८ ॥ मुखमपहृतपत्रमङ्गनानां प्रबलजलैरवलोक्य शङ्कितेव । सरिदकृत पुनस्तदर्थमूर्मिप्रसरकरार्पितशेवलप्ररोहैः ॥ ४९ ॥ सपदि वरतनोरतन्यतान्तर्य इह परिप्वजता जडेन रागः । स किल विमलयोयुगे तदक्ष्णोः स्फटिक इव प्रकटीबभूव तस्याः ॥१०॥ निरलकमपवस्त्रमस्तमाल्यं क्षततिलकं च्युतयावकाधरौष्ठम् । सह दयिततमैर्निषेव्यमाणं सुरतमिवाम्बु मुदेऽभवद्वधूनाम् ॥ ११ ॥ श्रवणपथरतापि कामिनीनां विशदगुणाप्यपदूषणापि दृष्टिः । अभजत जडसंगमेन रागं घिगधि कनीचरताश्रयं जनानाम् ॥ १२ ॥ १. केशकौटिल्यरोहित्यात्.
For Private and Personal Use Only