________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३ सर्गः]
धर्मशर्माभ्युदयम् ।
त्रयोदशः सर्गः । द्विगुणितमिव यात्रया वनानां स्तनजघनोद्वहनश्रमं वहन्त्यः । जलविहरणवाञ्छया सकान्ता ययुरथ मेकलकन्यका तरुण्यः ॥ १ ॥ जलभरपरिरम्भदत्तचित्ताः श्रमसलिलप्रसरच्छलेन रागात् । प्रथममिव समेत्य संमुखं ताः सपदि जलैः परिरेभिरे तरुण्यः ॥ २ ॥ क्षितितलविनिवेशनात्प्रसर्पन्नखमणिशोणमयूखमझियुग्मम् । श्रमनिवहविलम्बमानजिह्वाप्रसरमिवाध्वनि सुभ्रवां बभासे ॥ ३ ॥ प्रियकरकलितं विलासिनीनां नवशिखिपत्रमयातपत्ररन्दम् । मृदुकरपरिमर्शनात्तसौख्यं वनमिव पृष्ठगतं रराज रागात् ॥ ४ ॥ इह मृगनयनासु साम्यमक्ष्णोः प्रथममवेक्ष्य विशश्वसुः कुरङ्गयः । तदनु निरुपमैर्भुवो विलासैर्विजितगुणा इव ताः प्रणश्य जग्मुः ॥ ५ ॥ वदनमनु मृगीदशो द्रुमाग्रात्पतदलिमण्डलमाशु गन्धलुब्धम् । क्षितिगतशशिनो भ्रमेण राहोरवतरतो गगनाद्दयुतिं जहार ॥ ६ ॥ दिनकरकिरणैरुपर्यधस्तात्तुलितकुकलकृशानुभिः परागैः । पुटनिहितसुवर्णवद्वधूभिः स्वतनुरमन्यत हन्त तप्यमाना ॥ ७ ॥ वनविहरणखेदनिःसहं ते वपुरतिपीनपयोधरं बभूव ।। इति किल स मुदस्य कोऽपि दोभा युवतिमनाकुलितो जगाम रागी ॥८॥ मिलदुरसिजचक्रवाकयुग्माः प्रथयति भास्वति यौवने प्रकाशम् । स्फुटरवकलहंसकास्तरुण्यः सरित इव प्रतिपेदिरे नदी ताम् ॥ ९ ॥ अधिगतकरुणारसेव रेवा श्रमभरमन्दरुचो विलोक्य तन्वीः । जललवनिचितारविन्ददम्भात्सपदि सबाप्पकणेक्षणा बभूव ॥ १० ॥ प्रकटय पुलिनानि दर्शयाम्भोभ्रमणमुदञ्चय निर्भरं तरङ्गान् । घनजघनगभीरनाभिनृत्यद्भुकुटि तुलां न तथाप्युपैषि तन्व्याः ॥ ११ ॥ नयनमिव महोत्पलं तरुण्याः सरसिजमास्यनिभं च मन्यसे यत् । तदुभयमपि विभ्रमैरुभाभ्यां जितमिह वल्गसि किं थोद्वहन्ती ॥ १२ ॥ इति मुहुरपरैर्यथार्थमुक्ता क्षणमपि न स्थिरतां दधौ हियेव । गिरिविवरतलान्यधोमुखी सा परमपराब्धिवद्धतं जगाम॥१३॥(कालापकम्)
१२
For Private and Personal Use Only