________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११ सर्गः]
धर्मशर्माभ्युदयम् । इयमुदस्य करैः परिचुम्बतः सरसिजास्यमभून्न घनादरा । शरददत्त सुधाकरलालनासुखरता खरतापमतो रवः ॥ ४६ ॥ किमपि पाण्डुपयोधरमण्डले प्रकटितामरचापनखक्षता ।
अपि मुनीन्द्रजनाय ददौ शरत्कुसुमचापमचापलचेतसे ॥ ४७ ॥ विघटिताम्बुपटानि शनैः शनैरिह दधुः पुलिनानि महापगाः । नवसमागमजातहियो यथा स्वजघनानि घनानि कुलस्त्रियः ॥ ४८॥ स्फुरदमन्दतडिद्दयुतिभासुरं शरदि शुभ्रमुदीक्ष्य पयोधरम् । कपिशकेसरकेसरिशङ्कया प्रतिनदन्ति न दन्तिगणाः क्षणम् ।। ४९॥ कलमरालवधूमुखखण्डितं विपुलवप्रजले कमलाकरम् । निकटमप्यवधीरयति स्म साभिनवशालिवशालिपरम्परा ॥ ५० ॥ अयमनङ्गगजस्य मदाम्भसः परिमलो न तु शारदभूरुहः । इयमैयस्त्रिपदी त्रुटिताभितः कमलिनीमलिनीविततिन तु ॥ ११ ॥ हृदयहारिहरिन्मणिकण्ठिकाकलितशोणमणीव नभःश्रियः । ततिरुदक्षि जनैः शुकपत्रिणां भ्रमवतामवतारितकौतुका ॥ ५२ ॥ मरुति वाति हिमोदयदुःसहे सहसि संततशीतभयादिव । हृदि समिद्ववियोगहुताशने वरतनोरतनोद्वसतिं स्मरः ॥ १३ ॥ पतितमेव तदा हिममङ्गिनां वपुषि कीर्तिहरं शरदत्यये । शरणमुद्धतयौवनकामिनीस्तनभरो न भरोपचितो यदि ॥ ५४॥ बहलकुङ्कुमपङ्ककृतादरा मंदनमुद्रितदन्तपदाधराः । तुहिनकालमतो घनकञ्चका निजगदुर्जगदुत्सवमङ्गनाः ॥ ५५ ॥ अपि जगत्सु मनोभवतेजसां प्रवणयन्त्यतिरेकमनेकशः । हिममयानि तदा सवितुर्महोमहिमहानिमहानि वितेनिरे ॥ १६ ॥ स महिमोदयतः शिशिरो व्यधादपहृतप्रसरत्कमलाः प्रजाः । इति कृपालुरिवाश्रितदक्षिणो दिनकरो न करोपचयं दधौ ॥ १७ ॥ १. अभिनवशालिवशा-अलिपरम्परा. २. सप्तच्छदवृक्षस्य. ३. लोहशृङ्खला. ४. भ्रमरीश्रेणिः. ५. सिक्थकः. ६. महः-महिम-हानिमू-अहानि.
११
For Private and Personal Use Only