________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
• भृशमधार्यत नीपनभस्वता सह पयोधरनम्रनभःश्रिया ।
गलितहारनिभोदकधारया प्रथमसंगमसंगरविभ्रमः ॥ ३४ ॥ भुवनतापकमर्कमिवेक्षितुं कलितकान्तचलद्युतिदीपिका । दिशि दिशि प्रससार कृषीवतां सह मुदारमुदारघनावलिः ॥ ३५ ॥ जलधरेण पयः पिबताम्बुधे वमपीयत वाडवपावकः । कथमिहेतरथा तडिदाख्यया रुचिररोचिररोचत वहिजम् ॥ ३६ ॥ नभसि निर्गतकोमलमालतीकलिकया स्मरतोमरतीक्ष्णया। हृदयविद्ध इवालिगणः पुरा चलति का लतिकाः स्म निरीक्षितुम् ॥ ३७ ।। निभृतभृङ्गकुलाकुलकेतकीतरुरुदीर्णसितप्रसवाङ्कुरः । भृशमशोभत मत्त इव स्मरद्विरदनो रैदनोदितभूत्रयः ॥ ३८ ॥ त्वयि विभावपि भावपिधायिनि ध्रुवमनाथवतीमिव तां सखीम् । रिपुरिवैष विषं जलदो ददत्समद हन्ति दहन्ति च विद्युतः ॥ ३९॥ समधिगम्य पयः सरसामसावसहतापहता पतिवश्चिता । यदतनोत्तनुतापितपूत्तरं तदयि तद्दयितस्य न पातकम् ॥ ४० ॥ स्वयमनम्बुजमेव सरोऽभवद्वयधित सा तु वनान्तमपल्लवम् । यदि तया मृतयैव सुखं स्खलन्निनदया न दयास्ति वनेऽपि ते ॥ ४१॥ न रमते स्मयते न न भाषते स्वपिति नात्ति न वेत्ति न किंचन । मुभग केवलमस्मितलोचना स्मरति सा रतिसारगुणस्य ते ॥ ४२ ॥ इति कयापि दयापरयापरः प्रणयपूर्वमिहाभिहितो युवा । मुदमिवोदवहन्न च चारुतामदममन्दममन्थरमन्मथः ॥ ४३ ॥(कुलकम्) तृणकुटीरनिभे हृदि योषितां ज्वलति तीव्रवियोगहुताशने । स्वजनवच्छिखिभेकगणो नदनकृत पूत्कृतपूरमिवाकुलः ॥ ४४ ॥ प्रलपतां कृपयैव वियोगिनां किमपि दाहमहाज्वरशान्तये । शरदियं सरसीषु निरन्तरं व्यतनुतातनुतामरसं पयः ॥ ४५ ॥ १. मुदा अरं-उदारघनावलिः. २. श्रावणे. ३. दन्तक्षुण्णलोकत्रयः. ४. शरीरता. पतक्रिमिविशेषं यच्चकार.
For Private and Personal Use Only