________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११ सर्गः] धर्मशर्माभ्युदयम् ।
७९ इति विशङ्कय मधोर्वनवासिनः प्रहरतः परितोऽपि पराभवम् । प्रणयिनीकुचकञ्चकमुच्चकैरुरसि को रसिको न दधे जनः॥२२॥(कुलकम्) प्रचलवेणिलताञ्चलताडितोन्नतनितम्बतटस्तरुणीजनः । स्मरनिषादकशाभिरिवाहतश्चिरमतोऽरमतोडुरदोलया ॥ २३ ॥ स्मरवशीकरणौषधचूर्णवन्निदधतोपरि सौमनसं रजः । किमपरं मधुना वशिनोऽपि ते मुनिजना निजनामवशीकताः ॥ २४ ॥ स्वयमगाद्वसतिं कलिमत्यनदृशमदत्त मुखे प्रियकामिनाम् ।। इति बहूनि चकार वधूजनः स किल कोकिलकोविदशिक्षया ॥२५॥ मधुनिवृत्तिजुषां शुचिसंगमावृतमुदामिव काननसंपदाम् । विचकिलप्रसवावलिरन्वगादिह सिता हसितानुकृति मुखे ॥ २६ ॥ सकलदिग्विजये वरमल्लिकाकुसुमसंगतभृङ्गरवच्छलात् । इह निनाय जनं स्मरभूपतेन न वशं नवशङ्खभवो ध्वनिः ॥ २७ ॥ युवतिदृष्टिरिवासवपाटला स्मरनृपस्य बभौ नवपाटला । प्रणदिता मधुपैरिव काहला प्रियतमायतमानपराजये ॥ २८ ॥ वपुषि चन्दनमुज्ज्वलमल्लिका शिरसि हारलता गलकन्दले । मृगढशामिति वेषविधिर्नृणामनवमो नवमोहमजीजनत् ॥ २९ ॥ इह तृषातुरमर्थिनमागतं विगलिताशमवेक्ष्य मुहुर्मुहुः । हृदयभूस्त्रपयेव भिदां गता गतरसा तरसा सरसी शुचौ ॥ ३० ॥ इह शुनां रसना वदनाबहिर्निरगमन्नवपल्लवचञ्चलाः। हृदि खरांशुकरप्रकरार्पिताः किमशा नुकशानुशिखाः शुचौ॥३१॥ खल इव द्विजराजमपि क्षिपन्दलितमित्रगुणो नवकॅन्दलः । अजनि कामकुतूहलिनां पुना रसमयः समयः स धनागमः ।। ३२ ॥ इह घनैमेलिनैरपहस्तिता कुटजपुष्पमिषादुडुसंततिः । गिरिवने भ्रमरारवपूत्कृतैरवततार ततारतिरम्बरात् ॥ ३३ ॥ १. वाद्यविशेषः. २. चन्द्रम्; (पक्षे) ब्राह्मणश्रेष्ठम्. ३. सूर्यः; (पक्षे) सुहृत्. ४. अ. तुरः; (पक्षे) कलहः. ५. तिरस्कृता. ६. प्रमृतखेदा.
For Private and Personal Use Only