________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- काव्यमाला।
कलविराजिविराजितकानने नवरसालरसालसषट्पदः । सुरभिकेसरकेसरशोभितः प्रविससार स सारबलो मधुः ॥ १० ॥ अहह निर्दहति स्म वियोगिनां सुभगमङ्गमनङ्गहुताशनः । मुहुरुदीरितरोचिरयं चलत्कमलया मलयानिललीलया ॥ ११ ॥ तदभिधानपदैरिव षट्पदैः शबलिताम्रतरोरिह मञ्जरी । कनकमल्लिरिव स्मरधन्विनो जनमदारमदारयदञ्जसा ॥ १२ ॥ समधिरुह्य शिरः कुसुमच्छलादयमशोकतरोर्मदनानलः।। पथि दिधक्षुरिवैक्षत सर्वतः समवधूतवधूतरसोऽध्वगान् ॥ १३ ॥ युवतिदीर्घकटाक्षनिरीक्षितः पुलकितस्तिलकः कुसुमच्छलात् । अकृत लास्यमिवास्य जगत्पतेरुपवने पवनेरितपल्लवः ॥ १४ ॥ शशिमुखीवदनासवलालसे बकुलभूरुहि पुष्पसमाकुले । धृतिमधत्त परां मधुपावलिः किमसमा न समानगुणे रतिः ॥ १५ ॥ उचितमाप पलाश इति ध्वनि द्रुमपिशाचपतिः कथमन्यथा । अजनि पुष्पपदादलिताध्वगो नृगलजङ्गलजम्भरसोन्मुखः (१)॥ १६ ॥ गहनकुञ्जलतान्तरितक्रमां सहचरी निभृतः प्रतिपालयन् । विधुरितोऽपि पपौ स पिपासया कुसुमलीनमली न मधु क्षणम् ॥१७॥ रसविलासविशेषविदो नराः कथममी विलयं न ययुः क्षणात् । विकसितास्तरवोऽपि विचेतना मृगदृशोऽङ्ग दृशोर्व्यतिषङ्गतः ॥१८॥ मलयमारुतचूतपिकध्वनिप्रभृतिसायकसंचयमर्पयन् । मधुरसौ विदधे स्मरधन्विनं कमपि नाकिपिनाकिजयोर्जितम् ॥ १९॥ श्वसिति रोदिति मुह्यति कम्पते स्खलति ताम्यति यत्सहसाध्वगः । तदयमक्षतपक्षशिलीमुखैः किमधुना मधुना हृदि नाहतः ॥ २० ॥ विनिहतोऽयमनाथवधूजनो विधुरिता धुरि ता मुनिपतयः ।
सुरभिणा समभेदि नतभ्रवामिह स मानसमानमतङ्गजः ॥ २१ ॥ ___ १. कोकिलः. २. वृक्षविशेष:. ३. प्रकटितज्वालः. ४. स्त्रीरहितं जनमदारयत. ५. अगणितवधूकोपान. ६. संबोधनम्.
For Private and Personal Use Only