________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७
११ सर्गः]
धर्मशर्माभ्युदयम् । इत्याकर्ण्य स तस्य किंनरपतेर्भक्तिप्रगल्भां गिरं ___ श्रान्तं सैन्यमवेत्य वीक्ष्य करिणां संभोगयोग्यां भुवम् । देवो यावदचिन्तयन्निधिभृता तावत्क्षणानिमितं
शालामन्दिरमन्दुरावलभीप्राकारसारं पुरम् ॥ १७ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये दशमः सर्गः ।
एकादशः सर्गः। अथ स तत्र निधीश्वरनिर्मिते प्रविशति स्म पुरे परमेश्वरः । समुदितोऽपि चतुर्विधसेनया विहितमोहतमोहतिरद्रुतम् ॥ १ ॥ सुहृदमात्यगणाननुजीविनो नयनिधिर्विनिवेश्य यथायथम् । स्वयमिहोज्ज्वलरत्ननिकेतने स पदमाप दमान्वितमानसः ॥ २ ॥ बलभरोच्छलितैः पिहितप्रभोऽभजत मृण्मयतामिव यैर्जनः । मुकुरवत्स तु तैरपि पांसुभिर्नरमणी रमणीयतरोऽभवत् ॥ ३ ॥ न घनधर्मपयाष्टपतोदयो न च तनुत्वमजायत यत्प्रभोः।
तदभिनत्पटुतां न जगज्जनोत्सवपुषो वपुषोऽध्वपरिश्रमः ॥ ४ ॥ तदपि रूढिवशात्कृतमजनो विहितयात्रिकवेषविपर्ययः । अयमुवाह रुचि नयनप्रियां न च न कांचन काञ्चनदीधितिः ॥५॥ (युग्मम्) नभसि दिक्षु वनेषु च संचरन्नृतुगणोऽथ गुणाढ्यमियाय तम् । समुपभोक्तुमिवैतदुपासनारसमयं समयं स्वमवन्निव ॥ ६ ॥ हिममहामहिमानमपोहितुं सरसतामनुशासितुमङ्गिनाम् । दधदनिन्द्यगुणोपनतामृतुकमधुरं मधुरैश्चति काननम् ॥ ७ ॥ कतिपयैर्दशनैरिव कोरकैः कुरबकप्रभवैर्विहसन्मुखः । शिशुरिव स्खलितस्खलितं मधुः पदमदादमदालिनि कानने ॥ ८ ॥ मलयशैलतटीमटतो रवेन॒वमभूत्प्रणयी मलयानिलः । पुनरमुष्य यतो दिशमुत्तरामपरथाप रथायवरः कथम् ॥ ९॥
१. विहिता मोहरूपतमसो हतियेन. २. नरश्रेष्ठः. ३. अलंकरोति. ४ अपरथा-आप.
For Private and Personal Use Only