________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८२
काव्यमाला।
विघटयन्नखिलेन्द्रियपाटवं भृशमुरीकृतधर्मदिगाश्रयः । वपुषि बिभ्रदसौ तपसा महः कशमिनः शमिनः समतां दधौ ॥१८॥ मृगदृशामिह सीत्कृतकम्पिताधरपुटस्फुटदन्तसमद्युतः । विदधिरे नवकुन्दलता दलत्सुमनसो मनसो धृतिमङ्गिनाम् ॥ ५९॥ सुरभिपत्रवतः कुसुमेप्वभून्मरुवकस्य जनो विगतस्प्टहः । सुभगरूपजुषो मृगचक्षुषः प्रथितमान्यतमान्यगुणेप्विव ॥ ६० ॥ इह हि रोध्ररजांसि यशांसि वा विशदभांसि जगज्जयशालिनः । विदधिरे न मनोभवभूपतेः सममनन्तमनन्तरितं भुवा ॥ ६१ ॥ करणबन्धविवर्तनसाक्षिणीः समधिगम्य निशाः सुरतक्षमाः । तपसि कामिगणस्तरुणीजनैररमतारमतामसमानसैः ॥ ६२ ॥ अथ दिदाममुं रमणीयतामृतुगणस्य समं समुपेयुधः । अभिदधे जिनमित्यमराधिपो विनयतो नयतोपितभूत्रयम् ॥ १३ ॥ ऋतुकदम्बकमावयतीव वः श्रवणगोचरतां युगपद्गतैः । भ्रमरकोकिलहंसकलापिनां रसकलैः सकलैरपि निःस्वनैः ॥ ६४ ॥ सेना सुराणाममना मितारम्भवत्ययाना मधुना च येन । सेना सुराणा मम नॉमितारं भवत्यानामधुना चयेन ॥ ६५ ॥ प्रभावितानेकलतागताया प्रभाविताने कैलता गता या । प्रभावितानेकैलतांगताया सा स्त्री मधौ किं स्पृहणीयपुण्या ॥ ६६ ॥ वीक्ष्याङ्गना सत्तिलकान्सरागा विलासमुद्रायतनेऽत्र कान्ते । गुणांस्त्वयीवाभवदस्तशत्राविला समुद्रायतनेत्रकान्ते ॥ ६७ ॥ पदप्रहारैः पुरुषेण दधे मदः समुद्यत्तरुणीहतेन । रुतं तदश्रावि वने पिकीनामदः समुद्यत्तरुणीह तेन ॥ ६८ ॥ १. प्रथित-मान्यतम-अन्यतमगुणेषु. २. अमनस्का. ३. मनोविरहान्मितारम्भवती. ४. गमनरहिता. ५. कामदेवेन सह. इ: काम:. ६. स्तुतिमुखरा. ७. नामिता-अरम्. ८. अयानां भाग्यानां चयेन. ९. अवलोकितबहुविधवल्लीवृक्षविस्तारा. १०. मनोज्ञता. ११. प्रभौ-इता-न. १२. हे इकलत, इः कामस्तद्वत्कलता मनोज्ञता यस्य तत्संबोधनम्. १३. अप्राप्तशुभविधिः. १४. भूमिः. १५. समुद्रा-आयतनेत्रकान्ते. १६. समुत्-यत्तरुणि-(वृक्षे)-इह.
For Private and Personal Use Only