________________
Shri Mahavir Jain Aradhana Kendra
७१
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
त्वत्सैनिकास्तुल्यमदुर्महाभयं निस्त्रिंशचक्रेषुवराहवा नराः । नश्यत्सु सिंहादिषु तेन निर्भया निस्त्रिंशचक्रेषु वैराहवानराः ॥ ३३ ॥
यो नारङ्गः सरल इति यो यश्च पुंनागनामा
ज्ञात्वा वृक्षः सरसपयसा पोषितः पालितश्च । गूढं सोऽपि प्रथयति निधिं यत्प्ररोहाग्रहस्तैस्तत्किं युक्तं गिरिरयमिति व्याकुलो रोरवीति ॥ ३४ ॥ जराघवलमौलिभिः प्रचुरसौविदछैरिव
-
प्रफुल्लतरुभिर्टता प्रणयिनामुनोत्सङ्गिता । परिष्वजति चन्दनावलिरियं भुजंगान्यत
स्ततोऽतिगहनं स्त्रियश्चरितमत्र वन्दामहे ॥ ३५ ॥
मन्दाक्षमन्दा क्षणमत्र तावन्नेव्यापि न व्यापि मनोभवेन । रामा वरा मानिर्रन्यपुष्टवध्वा नैवध्वानवशा न यावत् ॥ ३६ ॥ कुपित केसरिचक्रचपेटया करटिकुम्भतटादभिपातिताः ।
इह विभान्ति तरुस्खलनच्युतस्फुरदुडुप्रकरा इव मौक्तिकाः ॥ ३७ ॥ प्रणयिनि नवनीवीग्रन्थिमुद्रिद्य लज्जाविधुरसुरवधूनां मोचयत्यन्तरीयम् ।
अधिरजनि गुहायामत्र रत्नप्रदीपे
करकुवलयघाताः साध्वपार्थीभवन्ति ॥ ३८ ॥
वो धनी यो मदनायको भवेन्न बोधनीयो मदनाय को मेवे । स सुभ्रुवामत्र तु नेत्रविभ्रमैर्विबोध्यते सत्तिकोऽपि कानने ॥ ३९ ॥ उद्भिद्य भीमभवसंततितन्तुजालं मार्गेऽपवर्गनगरस्य नितान्तदुर्गे ।
For Private and Personal Use Only
१. निस्त्रिंश-चक्र- इषु-वर आह्वाः निस्त्रिंशः खङ्गः . २. हिंस्रसमूहेषु. ३. वराहवानराः. ४. लज्जाव्याकुला. ५. नवीनापि ६. व्याप्ता. ७. लक्ष्मीस्थानम् ८. कोकिलया. ९. नवीनकूजिताधीना. १०. निष्फला भवन्ति ११. तरुणः १२. संसारे. १३. वृक्षविशेषः स च नारीकटाक्षपातेन विकसितो भवतीति प्रसिद्धिः.