________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१० सर्गः] धर्मशर्माम्युदयम् ।
लब्ध्वा भवन्तमभयं जिन सार्थवाहं
प्रस्थातुमुत्थितवतामयमग्रभूमिः ॥ ४० ॥ वनेऽत्र पाकोल्बणदाडिमीफलप्रकाशमाकाशमणिं नवोदितम् । जिघृक्षवोऽमी निपतन्ति वानरा अनूरुदण्डाग्रनिवारिता अपि ॥४१॥ कैटके सरोजवनसंकटके हरिणानपास्य सविधे हैरिणा । करटककैदलयता कॅरटं करिणः क्षताः स्फुटमिहाकरिणः ॥ ४२ ॥
क्वेदं नभः क्व च दिशः क्व च पुष्पवन्तौ ___ क्वैताः प्रकामतरलद्युतयश्च ताराः । । मन्येऽमुना नंगनिशागतिना गिलित्वा
सर्व स्वमेव विहितं ननु पीनपीनम् ॥ ४३ ॥ दूरेण दावानलशङ्कया मृगास्त्यजन्ति शोणोपलसंचयातीः । इहोच्छलच्छोणितनिर्झराशया लिहन्ति च प्रीतिजुषःक्षणं शिवाः ॥ ४४ ॥
स्मरति स्म रतिप्रियाद्यतः क्षणमीक्षणमीलितं रतम् । परमाप रमात्र तत्तमस्तरसास्तरसा वियोगिनी ॥ ४५ ॥
अत्रोच्चरुक्मशिखरी गिरिरत्र रौप्यः __साक्षादिह स्फटिकसारशिलोच्चयोऽपि ।
अस्मिन्वनैर्हिममयोऽत्र च चित्रकूटो
___रत्नैरनेकगिरिभिर्घटितोऽयमेकः ॥ ४६ ॥ अनेन पूर्वापरदिग्विभागयोः प्रमाणदण्डायितमत्र भारते । अयं कुबेरान्तकगुप्तयोर्दिशोरलङ्घयसीमेव टथुः स्थितोऽन्तरे ॥ ४७ ॥ ढक्का नदन्तीह भवत्यरीणां नवाशु भङ्गाय तिरोहितानाम् । यशस्तवोच्चैः शुचि किंनरेन्द्रे न वा शुभं गायति रोहितानाम् ॥ १८ ॥
प्रेङ्घन्मरुञ्चलितचम्पकचारुपुष्पै
रघ च निर्झरजलैश्च वितीर्य पाद्यम् । १. सूर्यम्. २. अद्रिनितम्बे. ३. सिंहेन. ४. कुम्भम्. ५. आकरः खनिरेषामस्ति योनित्वेन ते. आकरजा इत्यर्थः. ६. चन्द्रसूर्यो. ७. पर्वतरात्रिचरेण. ८. म लक्षणमन्धकारम. ९. मृगविशेषाणाम.
For Private and Personal Use Only