________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२
काव्यमाला।
मुहत्तमः सोऽथ सभासु हेत्तमःप्रभाकरश्छेत्तुमिति प्रभाकरः। धैरे क्षणं व्याप्टतकंधरेक्षणं तमीश्वरं प्राह जगत्तमीश्वरम् ॥ १५ ॥ पूर्वापराम्भोधितटीतरङ्गमालाग्ररङ्गत्कटकोऽयमाद्रिः । त्वत्सैनिकाक्रान्ततनुश्चकास्ति नम्रीभवन्नन्य इव क्षितीशः ॥ १६ ॥
अशेषसुरसुन्दरीनयनवल्लभोऽयं दध
न्मदान्धघनसुन्दरभ्रमरुचिः सहस्राक्षताम् । महावहनभक्तितो मुकुलितायभास्वत्करः
पुरस्तव पुरंदरद्युतिमुपैति सृथ्वीधरः ॥ १७ ॥ अनेकधातुच्छविभासुरा बलान्निवर्तिताः कुम्भभुवार्कमण्डलात् । अनेकधातुच्छविभा सुंराबला न का श्रयत्यस्य वनाकुलास्तटीः॥१८॥ बिम्ब विलोक्य निजमुज्ज्वलरत्नभित्तौ
क्रोधात्प्रतिद्विप इतीह ददौ प्रहारम् । तद्गग्नदीर्घदशनः पुनरेव तोपा
___ लीलालसं स्टशति पश्य गजः प्रियेति ॥ १९ ॥ पलाय्य निर्यन्मदवारिधारा गिरेरुपान्ते करिणः प्रयान्तः ।
त्वत्तूर्यनादैसुटितोरुमूला विभान्ति कूटा इव निर्गुठन्तः ॥ २० ॥ न वगै नवप्रेमबद्धा भ्रमन्ती स्मरन्ती स्मरं तीव्रमासाद्य भर्तुः । क्षणादीक्षणादीश बाप्पं वमन्ती दशां का देशाङ्कामिहान्वेति न स्त्रीः।।२१॥
प्रकटितोरुपयोधरबन्धुराः सरसचन्दनसौरभशालिनीः।। मदनबाणगणाङ्कितविग्रहो गिरिरयं भजते सुभगास्तटीः ॥ २२ ॥ इयं गिरेगैरिकरागरञ्जिता विराजते गहरवारिवाहिनी । पविप्रहारत्रुटितोरुपक्षतिक्षताद्गलन्तीव नवावधोरणिः ॥ २३ ॥ १. हृदयान्धकारदूरीकरणे सूर्यः. २. एतनामकः. ३. पर्वते. ४. जगचन्द्रम्, ५. पृथ्वीछन्दोऽपि. ६. अनेक-धातु च्छवि-भासुराः. ७. अगस्त्येन. ८. अनेकधा. अतुच्छ-विभा. ९. देवाङ्गना. १०. दशमी कामदशाम्. मरणमित्यर्थः. ११. मदनबाणः पुष्पविशेषः; कामशरश्च.
For Private and Personal Use Only