________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
प्रमितिविधुरा ये मिथ्यात्वं पथः प्रतिपेदिरे __पिदधुरपि ये कूटारम्भैदिगम्बरदर्शनम् । प्रेगुणबलवांस्तांस्तानुच्चैः प्रमथ्य गिरीश्वरा
न्वमिह सुगमं कुर्वन्मार्ग जगाम जिनेश्वरः ॥ ७९ ॥ इत्युच्चैस्तनवप्रभूषणवतीर्नारीः पुरीर्वी श्रय
न्कान्तारङ्गमितानरीनिव नगेष्वालोकयन्किनरान् । देशानप्यतिलङ्घयन्समकरान्सिन्धुप्रवाहानिव
प्राप प्रेमवतीमिवात्तमैदनां देवः स विन्ध्यस्थलीम् ॥ ८० ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये नवमः सर्गः ।
दशमः सर्गः।। अथाधिपेनार्थयितुं दिनानां रथस्य पन्थानमिवोपरिष्टात् । पादाग्रनम्रेण निषेव्यमाणं धराधरं विन्ध्यमसौ ददर्श ॥ १ ॥ समुन्नमत्कूटपरम्पराभिराक्रान्तमन्तः पृथुकंदराभिः । भुवोऽर्धमधैं नभसो गृहीत्वा मन्ये यमुच्चैर्विदधे विधाता ॥ २ ॥ स्रष्टा दधात्येव महानदीनां महानदीनां शिखरोन्नतिं यः । स्वर्गादिहागत्य सदानभोगैः सदा नभोगैरनुगम्यमानः ॥ ३ ॥ 'मैंनेमहिनामभितो निरोडुरध्वानमन्वेष्टुमिवोत्सुको यः ।। शृङ्गाग्रलग्नोडुचयच्छलेन नक्तं समुन्निद्रसहस्रनेत्रः ॥ ४ ॥ प्रस्थैरदुस्थैः कलितोऽप्यमानः पादैरमन्दैः प्रसृतोऽप्यगेन्द्रः । युक्तो वनैरप्यवनः श्रितानां यः प्राणिनां सत्यमगम्यरूपः ॥ ५ ॥
१. अतिशयेनाप्रमाणाः; (पक्षे) प्रमाणपञ्चकोपलक्षिततर्कशास्त्रविह्वलाः. २. मार्गस्य जिनदर्शनस्य च. ३. शिखरारम्भैः; अनुचितप्रारम्भैश्च. ४. दिगाकाशावलोकनम्; जिनदर्शनं च. ५. सुसंनद्धसैन्यवान् ; चतुर्दशगुणस्थानशक्तिमांश्च. ६. पर्वतेन्द्रान्; समर्थानैयायिकप्रभृतिवादिनश्च. इत्यादर्शपुस्तकस्थं टिप्पणम्. ७. उच्चैः-स्तनवप्र; (पक्षे) उच्चैस्तन-वप्र-इति च्छेदः. ८. इवार्थे. ९. कान्ता रङ्ग-इतान्; (पक्षे) कान्तारंगमितान्. १०. सम-करान् ; (पक्षे) स-मकरान्. ११. कामः; (पक्षे) वृक्षविशेषः. १२. महा-नदीनाम्; महान्-अदीनाम्. १३. दानभोगाभ्यां सहितैः. १४. अगस्त्यस्य.
For Private and Personal Use Only