________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९ सर्गः)
धर्मशर्माभ्युदयम् । चक्राब्जशङ्खादिविलोकनोत्थया स्वकान्तसंकेतनिवासशङ्कया । मन्ये न लक्ष्मीनवपल्लवारुणं तदङ्ग्रिपङ्केरुहयुग्ममत्यजत् ॥ १८ ॥ उद्यत्पदाङ्गुष्ठनखांशुदण्डिकाप्रकाण्डगर्भ युगमस्य जङ्घयोः । कार्तस्वरस्तम्भविशेषशालिनी जहास दोलां नवधर्मसंपदः ॥ १९ ॥ अत्यन्तमव्याहतवेगवीर्ययोर्जगत्रयीनेत्रमनोगजेन्द्रयोः । स्तम्भाविवोरुदृढबन्धहेतवे व्यधायिषातां ध्रुवमस्य वेधसा ॥ २० ॥. कण्ठीरवेणेव नितान्तमुन्नतं नितम्बबिम्बं परिणाहि बिभ्रता । एनोमयी तेन जनस्य दर्शनात्प्रमत्तमातङ्गघटाविघहिता ॥ २१ ॥ तप्तो ध्रुवं प्राग्जिननाभिपल्वले विवेश दानोद्भुरधर्मसिन्धुरः । समुल्लसल्लोमलतापदेशतो मदाम्बुधारा कथमन्यथा तटे ॥ २२ ॥ लक्ष्मीरिहान्तःपुरसुन्दरी चिरं गुणैः सह स्थास्यति सौविदल्लकैः । जानन्नितीवास्य मनोहितं विधिय॑धाद्विशालं हृदयं दयावतः ॥ २३ ॥ तस्यैकमुच्चै जशीर्षमुहहन्सहेलमालम्बितभूत्रयो भुजः । भूभारनियुक्तशिरःसहस्त्रकं फणीश्वरं दूरमधश्चकार सः ॥ २४ ॥ रेखात्रयेणेव जगत्रयाधिकां निरूपयन्तं निजरूपसंपदम् । तत्कण्ठमालोक्य ममज लज्जया विशीर्यमाणः किल कम्बुरम्बुधौ ॥२५॥ यन्निस्तुलेनापि तदाननेन्दुना व्यधात्तुलारोहणमुग्रपातकम् । अद्यापि हेमद्युतिरुद्यतस्ततो भवत्यसौ श्वित्रविपाण्डुरः शशी ॥२६॥ स्निग्धा बभुर्मूर्धनि तस्य कुन्तलाः कलिन्दकन्याम्बुतरङ्गभङ्गुराः । फुल्लाननाम्भोरुहि सारसौरभे निलीननिःशब्दमधुव्रता इव ।। २७ ॥ वजाब्जसारैरिव वेधसा कृतं तमास्पदं विक्रमसौकुमार्ययोः । उाः करं ग्राहयितुं न केवलं बभूव वध्वा अपि वप्तुराग्रहः ॥२८॥ तं यौवराज्ये नयशीलशालिनं व्यधात्तनूजं नवयौवनं नृपः । प्रागेव लोकत्रयराज्यसंपदां निधानमेनं न विवेद भूपतिः ॥ २९ ॥ तस्मिन्गुणैरेव नियम्य कुर्वति प्रकाममाज्ञावशवर्तिनः परान् । आसीन्नपोऽन्तःपुरसारसुन्दरीविलासलीलारसिकः स केवलम् ॥ ३०॥ १. पितु:.
For Private and Personal Use Only