________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९ सर्गः]
धर्मशर्माभ्युदयम् । त्वमसि स खलु दीपः केवलालोकहेतुः
शलभमुलभलीलां लप्स्यते यत्र कामः ॥ १४ ॥ अलमलममृतेनास्वादितं त्वद्वचश्चे
त्किममरतरुलक्ष्म्या त्वय्यपि प्रार्थ्यमाने । जिन जगदतमस्कं कुर्वति त्वत्प्रबोधे
किमहिमरुचिना वा कार्यमत्रेन्दुना वा ॥ ५५ ॥ दुरितमुदितं पाकोद्रेकात्पुराकतकर्मणां
झटिति घटयत्यर्हद्भक्तेः स्वशक्तिविपर्ययम् । उपजलतरुच्छायाछन्ने जने जरठीभव
द्दयुमणिकिरणैर्भीष्मो ग्रीष्मो न किं शिशिरायते ॥ ५६ ॥ इत्याराध्य त्रिभुवनगुरुं तत्र जन्माभिषेके
भक्त्या मातुः पुनरपि तमुत्सङ्गभाजं विधाय । भूयो भूयस्तदमलगुणग्रामवार्ताभिरुद्य
ल्लोमानस्ते त्रिदशपतयः स्वानि धामानि जग्मुः ॥ १७ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्येऽष्टमः सर्गः ।
नवमः सर्गः। सिक्तः सुरैरित्थमुपेत्य विस्फुरज्जंटालवालोऽथ स नन्दनद्रुमः । छायां दधत्काञ्चनसुन्दरी नवां सुखाय वप्तुः सुतरामजायत ॥ १ ॥ चित्रं किमेतजिनयामिनीपतियथा यथा वृद्धिमनश्वरीमगात् । सीमानमुल्लङ्घय तथा तथाखिलं प्रमोदवार्धिर्जगदप्यपूरयत् ॥ २ ॥ लप्स्यामहे तीर्णभवार्णवं पुनर्विवेकिन क्कैनमितीव तं प्रभुम् । बाल्याङ्गसंस्कारविशेषसत्क्रियाः किमप्यहपूर्विकया सिषेविरे ॥ ३ ॥ लोकस्त्रिलोक्यां सकलोऽपि सप्रभः प्रभावसंभावितमेकमर्भकम् । ज्योतिर्ग्रहाणामिव मण्डलो ध्रुवं ध्रुवं समन्तादनुवर्तते स्म तम् ॥ ४ ॥
१. जटाला जटायुक्ता बालाः केशा यस्य; (पक्ष) जटा मलम्, आलवालमावाल:. २. कांचन अनिर्वचनीयाम; (पक्षे) काञ्चनवत्सुन्दरीम,. ३. पितुः; मालाकारादेश्व,
For Private and Personal Use Only