________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२
काव्यमाला ।
सकलविदकलङ्कः क्षीणसंसारशङ्क
श्चकितजनशरण्यः कस्त्रिलोक्यां त्वदन्यः ॥ ४८ ॥ न खलु तदपि चित्रं यत्त्वयोदेप्यतापि
प्रथममयमकारि प्राप्तपुण्यो जनोऽत्र । प्रतिशिखरि वनानि ग्रीष्ममध्येऽपि कुर्या
किमु न जलदकालः प्रोल्लसत्पल्लवानि ॥ ४९ ॥ तव वृषमधिरूढो योऽपि तस्य द्युलोकः
स खलु कियति दूरे यो जनेनापि लभ्यः । यदि चतुरगमाप्तः प्राप्तवास्तदुरापं
तदपि जिन जनोऽयं जन्मकान्तारतीरम् ॥ ५० ॥ सर इव मरुमार्गे स्वच्छतोयं तृषार्ते__स्तरुरिव रविरश्मिव्याकुलैरत्र सान्द्रः । निधिरिव चिरदःस्थैः शर्मणेऽस्माभिरेकः
कथमपि भवभीतैर्नाथ दृष्टोऽसि दिष्टया ॥ ११ ॥ स्वगुणगरिमदौःस्थ्यं रोदसी रन्ध्ररोपा
द्वयतिषजति जिनेश त्वद्यशश्चन्द्रगौरम् । कथय कथममन्दा मन्दिरोद्योतशक्ति
प्रकटयति घटान्तर्वतिरूपः प्रदीपः ॥ ५२ ॥ गुणपरिकरमुच्चैः कुर्वतैव त्वयैते
क्षपितकलुषदोषा रोषितास्तद्विपक्षाः । अथ न कथममीषां नेक्ष्यते त्वद्भयेन
त्वदनुगतजनेऽपि प्रायशः प्रीतिलेशः ॥ ५३ ॥ इह पिहितपदार्थे सर्वथैकान्तवल्ग
निबिडतमतमोभिर्विश्ववेश्मन्यकस्मात् ।
१. वृषं धर्मम् ; (पक्षे) वृषभम्. २. यः जनेन; (पक्षे) योजनेन क्रोशचतुष्टयात्मकेन. ३. चतुरगं चारित्रभारम्; (पक्षे) तुरगम्.
For Private and Personal Use Only