________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८ सर्गः]
धर्मशर्माभ्युदयम् । उदकमुपनयद्भिदेवन्दैस्तदानी__ मभिनवमभिनीतं वार्घटीयन्त्रचक्रम् ॥ २९ ॥ घनसुषिरततानामुहुरानद्धनादे __ तिरयति रवमुच्चैभिन्नभूमीध्ररन्ध्रे । प्रसरति नवनाव्यप्रक्वणत्किङ्किणीना
ममरसहचरीणां मङ्गलोद्गाररावे ॥ ३० ॥ कलुषमिह विपक्षं दर्शनादेव जित्वा __स्वगुणगरिमहेलाक्रान्तसिंहासनस्य । . प्रथमममरनाथा भूत्रयस्येव राज्ये
कनककलशतोयैश्चरस्याभिषेकम् ।। ३१ ॥ (युग्मम्) जरठविशदकन्दप्रोज्ज्वलायां शिलायां
प्रचलदरुणमुग्धस्निग्धपाणिप्रवालः । अमृतमधुरनीरैः सिच्यमानः स देवै
रभिनव इव रेजे पुण्यवल्लीप्ररोहः ॥ ३२ ॥ हिमगिरिमिव मेरुं नीरपूरैः सृजद्भिः
स्नपयितुमपि पृथ्वीमाशु पृथ्वी समर्थैः । शिशुरपि गिननाथश्रुक्षुभे नो मनाग
प्यहह सहजधैर्य दुर्निवार्य जिनानाम् ॥ ३३ ॥ यदधरितसुधौधैरहतः स्नानतोयैः
सममसमसमृद्ध्यानेनिनुः श्रद्धयाङ्गम् । जगति खलु जरायां सर्वसाधारणायां
तदसुलभममा भेजिरे निर्जरत्वम् ।। ३४ ॥ नटदमरवधूनां दृक्कटाक्षच्छटाभाः
कनकरुचिकपोले तीर्थकर्तुः स्फुरन्तीः ।
१. वार्घटीयन्त्रमरघट इति प्रसिद्धम्. २. 'ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् ॥' इत्यमरः, ३. अनेनिजुरक्षालयन.
For Private and Personal Use Only