________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
चपलकलभलीलाभिन्नकोलकैला
परिमलमिलितालिवानधीरः समीरः ॥ २३ ॥ अयमिह जटिलोमि ति कङ्केल्लिवल्ली
किसलयललिताभिविट्ठमाणां लताभिः । ज्वलिततनुरिवान्तर्वाडवाग्नेः शिखानां
विततिभिरतिगायॊत्साहबंहीयसीभिः ॥ २४ ॥ इह हि मिलितरङ्गत्प्रौढसिन्धुप्रियायाः
पुलिनजघनरङ्गोत्सङ्गसङ्गात्पयोधिः । सरभसमुपकूजत्कुंकुहक्वाणदम्भा
न्मसृणमणितलीलोल्लासमभ्यस्यतीव ॥ २५ ॥ सकलजगदधृष्यस्यैकगाम्भीर्यभाजो
बहुलहरियुतस्य प्रोल्लसत्केकणस्य । इति निगदति तस्मिन्नाकिलोकस्य तस्या____प्यजनि सलिलराशेरन्तरं नैव किंचित् ॥ २६ ॥ सुरसमितिरसंख्यैः क्षीरपाथोधिनीरं __ यदुरुकनककुम्भैरुचलुम्यांचकार । चुलुककलितवार्धेः स्मारयामास नश्य___ वरुणनगरनारीस्तेन कुम्भोद्भवस्य ॥ २७ ॥ स्नपनविधिनिमित्तोपात्तपानीयपूर्णाः
सपदि दिवमुदीयुः शातकुम्भीयकुम्भाः । दृषद इव तदन्ये यच्च रिक्ता निपेतुः
प्रकटमिह फलं तज्जैनमार्गानुसत्तेः ॥ २८ ॥ अनुगतभुजमालालीलयारभ्यमाणे
मणिघटपरिवर्तावर्तनैः क्षीरसिन्धोः । १. अतिवृष्णासंयोगदीर्घतमाभिः. २. कुक्कु हो जलपक्षिविशेष:. ३. 'मणितं रतिकूजितम्'. ४. बहु-लहरि; (पक्षे) बहुल-हरि. ५. कङ्कणं करभूषणम्; जलकणश्च. ६. देवसमूहः.
For Private and Personal Use Only