________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८ सर्गः]
धर्मशर्माभ्युदयम् । तदयमिति मतिम क्षीरसिन्धुजनाना___ मजनि हृदयहारी हारनीहारगौरः ॥ १७ ॥ द्विरदतरुतुरंगश्रीसुधाकौस्तुभाद्याः ___ कति कति न ममार्था हन्त धूर्तेहीताः । इति मुहुरयमुर्वी ताडयत्रूमिहस्तैः
ग्रहिल इव विरावैः सागरो रोरवीति ॥ १८ ॥ पवनजववशेनोत्पत्य दूरं पतन्तो
जलधिजलतरङ्गाः कम्बुकिर्मीरभासः । उपरि विततमुक्तासंग्रहोत्तालबुद्ध्या
झटिति कलिततारामण्डला वा विभान्ति ॥ १९ ॥ घनतरतरुणाढ्येनात्र देशे न केना
प्यतिगुरुगिरिणा वा दुर्निवारप्रचाराः । स्वयमिममभिसस्नुर्यत्समस्ताः स्त्रवन्त्यो __ निरुपममिदमस्मादस्य सौभाग्यमब्धेः ॥ २० ॥ अयमुपरि सविद्युत्तोयमादातुमब्धे
र्व्यतिपजति तमालश्यामलो वारिवाहः । तुहिनकिरणकान्तं कान्तया श्लिप्यमाणः
शिशयिषुरिव शौरिः शेषपर्यङ्कटष्ठम् ॥ २१ ॥ स्फुटकुमुदपरागः सागरो मातरं नः ___ क्षितिमहह कदाचित्लावयिप्यत्यशेपाम् । इति किल जलवेगं रोडुमाबद्धमालाः ___ कथमपि तटमस्य मारुहो न त्यजन्ति ॥ २२ ॥ रतिविरतिषु वेलाकानने किंनरीभिः
पुलकितकुचकुम्भोत्तम्भमासेव्यतेऽस्मिन् । १. उन्मत्तः. २. वा इवार्थे. ३. प्रचरतरवृक्षण समृद्धेन; (पक्षे) बहुभिस्तरुणैरास्येन. ४. विकसितकुमुदवच्छेतः; (पक्षे) कुमुत् भूमेहर्षस्तेनापरागो बद्धमत्सरः..
For Private and Personal Use Only