________________
Shri Mahavir Jain Aradhana Kendra
५६
www.kobatirth.org
काव्यमाला ।
इति तमुपरि मेरोर्नेतुमुत्क्षिप्य देवाः
कलितकनककुम्भामारभन्ते स्म पङ्गिम् ॥ ११ ॥ अभिनवमणिमुक्ताशङ्खशुक्ति प्रवालप्रभृतिकमतिलोलैर्दर्शयन्नूर्मिहस्तैः । tsजठरतयैक्षि व्याकुलो मुक्तकच्छः
Acharya Shri Kailassagarsuri Gyanmandir
स्थविरवणिगिवाये स्वर्गिभिः क्षीरसिन्धुः ॥ १२ ॥ उपचितमतिमात्रं वहिनीनां सहस्रैः पृथुलहरिसमूहैः क्रान्तदिक्चक्रवालम् ।
अकलुषतरवारिक्रोडमज्जन्महीभ्रं
नृपमिव विजिगीषु मेनिरे ते पयोधिम् ॥ १३ ॥ अनुगतभुजगेन्द्रान्मन्दराद्रीनिवोच्चै
र्दधतममलमुक्तामालिनः स्वर्णकुम्भान् ।
सुरनिकरमुपेतं वारिधिर्वीक्ष्य भूयो -
ऽप्यतिमथनभियेव व्याकुलोर्मिश्चकम्पे ॥ १४ ॥ उदधिनिहितनेत्रान्वीक्ष्य वाग्विभ्रमाणां
निधिरमृतभुजस्तान्पालकः केलिपात्रम् ।
विहितमुदमवोचद्वाचमेतामनुक्तो
ऽप्यवसर मुखरत्वं प्रीतये कस्य न स्यात् ॥ १९ ॥ नियतमयमुदवीचिमालाछलेनो
च्छलति जलदमार्गे ज्ञातजैनाभिषेकः । तदनु जडतयोच्चैर्नाधिरोढुं समर्थः
पतति पुनरधस्तात्सागरः किं करोतु ॥ १६ ॥ प्रशमयितुमिवार्ति दुर्वहामौर्ववह्ने
यदधिरजनि चान्द्रीः शीलयामास भासः ।
-
१. पूर्णा गाधमध्यभावेन स्थूलोदरत्वेन च दृष्टः २ नदीनाम्; सेनानां च. ३. पृथुलहरिसमूहैः; (पक्षे ) पृथुल - हरिसमूहैः. हरयोऽश्वाः ४. अकलपतरं वारि जलम् ; ( पक्षे ) तरवारिः खङ्गः:
For Private and Personal Use Only